SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ४३४ प्रनेयकमलमार्तण्डे [३. परोक्षपरि० वस्तुन्येव संस्पृ(सं)टत्वैकत्वनानात्वादिविकल्पानां प्रतीतेः । भेदाभ्युपगमे वा अमावस्य वस्तुरूंपतापत्तिः; तथाहि-ये परस्पर भिद्यन्ते ते वस्तुरूपा यथा स्वलक्षणानि, परस्परं भिद्यन्ते चाऽपोहा इति । ५ न चापोह्यलक्षणसम्वन्धिभेदादपोहीनां भेदः, प्रमेयाभिधेयादिशब्दानामप्रवृत्तिप्रसङ्गात्, तदभिधेयापोहानामपोहाँलक्षणस. म्वन्धिभेदाभांवतो भेदासम्भवात् । अंत्र हि यत्किञ्चिद्व्यवच्छेत्वेन कल्प्यते तत्सर्व व्यवच्छेद्योंकारेणालम्ब्यमानं प्रमेयादिखभा वमेवावतिष्टते । न ह्यविषयीशेतं व्यवच्छेत्तुं शक्यमतिप्रसङ्गीत् । १० न च सम्वन्धिभेदो भेदकः, अन्यथा वहुषु शावलेयादिव्यक्तिष्वेकस्याऽगोपोहस्याऽभावप्रसङ्गः यस्य चाँन्तरङ्गाः शावलेयादिव्यक्तिविशेषा न भेदकाः 'तस्याऽश्वादयो मेदकाः' इत्यतिसाहसम् ! सम्बन्धिभेदाच्च वस्तुन्यपि भेदो नोपलभ्यते किमुताऽवस्तुनि; तथाहि-देवदत्तादिकमेकमेव वस्तु युगपत्क्रमेण वाने१५ कैराभरणादिभिरभिसम्वद्ध्यमानमनासादितभेदमेवोपलभ्यते। भवतु वा सम्बन्धिभेदानेदः, तथापि-वस्तुभूतसौमान्यानभ्युपगमे भवतां सँ एवापोहाश्रयः सम्बन्धी न सिद्धिमासादयति यस्य भेदात्त दः स्यात् । तथाहि-गादीनां यदि वस्तुभूतं सारूप्य प्रसिद्धं भवेत्तदाश्चाद्यपोहाश्रयत्वमविशेषेणैषां प्रसिद्ध्येन्नान्यथा। २० अंतोऽपोहविषयत्वमेषामिच्छताऽवश्यं सारूप्यमङ्गीकर्त्तव्यम् । तदेव च सामान्यं वस्तुभूतं भविष्यतीत्यपोहकल्पना वृथैव । १न तुच्छरूपाभावे । २ अन्ये सम्बद्धत्व । ३ आदिना प्रमेयत्वादि । ४ मेदानाम् । ५ सौगतैः। ६ अपोहस्य । ७ तलक्षणत्वावस्तुत्वस्य । ८ कथम् । ९ अश्वादिनिवृत्तयः। १० अपोह्या व्यावा अश्वादयः। ११ अभावानाम् । १२ अन्यथा। १३ अप्रमेयादि । १४ स्वरूप। १५ स्वरूपेण नास्ति यतः। १६ प्रमेयादिशब्देषु । १७ अप्रमेयादि । १८ व्यावय॑त्वेन । १९ व्यावाकारेण । २० विषयीक्रियमाणम् । २१ वर्त्तते। २२ व्यवच्छेद्यमप्रमेयादि । २३ परिच्छेत्तुम् । २४ गगनकुसुममपि परिच्छेत्तुं शक्यं स्यात् । २५ अपोहानाम् । २६ किन्तु प्रतिव्यक्ति भिन्न एव स्यात् । २७ अव्यभिचारि प्रतिनियतमन्तरङ्गम् । २८ अपोहे । २९ कटककुण्डलादिभिः । ३० सम्बन्धिमिः । ३१ अपोहस्य । ३२ परमार्थसत्य । ३३ गोत्वादि । ३४ विवक्षितः। ३५ सन्। ३६ सम्बन्धिनः। ३७ अपोहस्य । ३८ अर्थानाम् । ३९ सदृशरूपम् । ४० शावलेयादिषु। ४१ सामान्यम् । ४२ गोत्वादि। ४३ साधारणेन । ४४ सारूप्याभावे। ४५ सामान्यानभ्युपगमे विवक्षितोऽपोहाश्रयः सम्बन्धी न सिम्यति यतः । ४६ सौगतेन । ४७ नियमेन ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy