SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ४४० प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तद्धेतोनिविश्यमायत्यायोगात् । नापि वाच्यापोहोदनिमित्तः, तद्भेदस्य प्रागेव कृतोत्तरत्वात् । ननु प्रत्यक्षेणैव शब्दानां कारणभेदाद्विरुद्धधर्मायालाच भेदः प्रसिद्ध एव; इत्यप्यसाम्प्रतम् । यतो वाचकं शव्दमङ्गीकृत्यै५ वमुच्यते । न च श्रोत्रज्ञानप्रतिभासिस्खलक्षणात्मा शब्दो वा. चकः; सङ्केतकालानुभूतस्य व्यवहारकालेऽचिरनिरुद्धत्वात् इति न स्वलक्षणस्य वाचकत्वं भवदभिप्रायेण । तदुक्तम् "नार्थशब्दविशेषेण वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वासामान्यं तूपदिश्यते ॥१॥"[ ] "तंत्र शब्दान्तरापोहे सामान्य परिकल्पिते । तथैवावस्तुरूपत्वाच्छब्दभेदो न कल्प्यते ॥२॥" [मी० श्लो० अपोह० श्लो० १०४] ततो ये अवस्तुनी न तयोर्गस्यगमकभावो यथा खपुष्प-खर. विषाणयोः। अवस्तुनी च वाच्यवाचकापोहौ अवतामिति । ननु १५ मेघाभावादृष्ट्यभावप्रतिपत्तेरनैकान्तिकता हेतोः इत्यप्ययुक्तम् । तद्विविक्ताकाशालोकात्मकं हि वस्तु मत्पॅक्षेऽत्रापि प्रयोगेस्त्येव, अभावस्य भावान्तरखभावत्वप्रतिपादनात् । भवत्पक्षे तु न केवलमपोहयोर्विवादास्पदीभूतयोर्गम्यगमकत्वाभावोऽपि तु वृष्टि मेघाद्यौवयोरपि। २० किञ्च, अपोहो वाच्यः, अर्थावाच्यो वा? वाच्यश्चेत्किं विधिरूपेण, अन्यव्यावृत्त्या वा? यदि विधिरूपेण; कथमपोहः सर्व १ वासनाकारणस्य । २ तुच्छरूपत्वान्निविषयत्वमपोहस्य सविकल्पकशानस्य । ३ गवादीनाम् । ४ ताल्वादि । ५ भिन्न । ६ अध्यासो ग्रहणम् । ७ पारमार्थिकाथेस्य । ८ परेण सौगतेम। ९ स्वलक्षणरूपशब्दस्य । १० विनष्टत्वात् । ११ हेतोः। १२ शब्दस्वभावस्य । १३ बौद्ध । १४ अस्वलक्षणरूपैः शब्दरस्वलक्षणरूपार्धप्रतिपादने न किञ्चित्साध्यसिद्धिौद्धमते इत्यभिप्रायः। १५ परेण । १६ सङ्केतकालात् । १७ अशातत्वात् । १८ उत्तरकाले । १९ अर्थशब्दयोः । २० तर्हि सामान्याकारण वाच्यवाचकतास्त्वित्याशङ्कायामाह । सामान्यस्य वाच्यवाचकतयोपदेशे च । २१ गोशब्दादश्वशब्दः शब्दान्तरं तेन वाच्योऽपोहस्तत्र । २२ अवास्तवे । परिकल्पितप्रकारेण। २३ शब्दानाम् । २४ समर्थ्यते। २५ सौगतानाम् । २६ अभावरूपयोरपि गम्यगमकभावोस्तीति वक्ति बौद्धः। २७ गम्यगमकभावसद्भावात्। २८ अवस्तुत्वादिति । २९ मेवादिभिन्न। ३० जैन। ३१ सौगत । ३२ वाच्यवाचकयोः। ३३ तुच्छरूपत्वात् । ३४ अन्यश्च । ३५ शब्देन । ३६ अथवा। ३७ शब्देन । ३८ अस्तित्वसद्भावेन। ३९ एव ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy