________________
सू० ३१९९] शब्दनित्यत्ववादः
४२१ यदप्युक्तम्-यथैवोत्पद्यमानोऽयमित्यादिः तदप्यसङ्गतम् । न हि दिगोधपेक्षयाऽस्माभिस्तन्द्रहणमिप्यतेऽपि तु श्रवणान्त
तत्वेन । अतो यस्यैव श्रवणान्तर्गतो यः शब्दः स तेनैव गृह्यते । सर्वगतवर्णपक्षे तु नायं परिहारो निखिलवर्णानां सकलप्रतिपत्तृश्रवणान्तर्गतत्वेन तथैवोपलम्भप्रसङ्गात् । ५ __ आवरणविगमः शब्दसंस्कारः; इत्मप्यतत्यम्: यतः प्रमाणान्तरेण शब्दसद्भावे सिद्धे तस्यावरणं सिद्धयेत् स्वाशन प्रत्यक्षप्रतिपन्ने घटेऽन्धकारादिवत् । न चासौ सिद्धः । तत्कथमस्यावरणम् ? नित्यस्याऽस्याऽनाधेयाऽप्रहेयाऽतिशयान्मतयाऽत्याकिञ्चित्करत्वाच्च । न चाऽकिश्चित्करः कस्यचिदावरणमतिप्रस-१० ङ्गात् । उपलब्धिप्रतिवन्धकारणात्तञ्चेत् ; न तज्जननैकस्वभावस्य तदयोगात् । न हि कारणाऽक्षये कार्यक्षयो युक्तस्तस्याऽतत्कार्यत्वप्रसङ्गात् । कथमेवं कुड्यादयो घटादीनामावारका इति चेत्, तजनकखभावखण्डनात् । कथमन्यस्योपलब्धि जनयन्तीति चेत् ? तं प्रति तत्स्वभावत्वात् । कथमेकस्योभयरूपता? इत्यप्य-१५ चोद्यम् ; तथा दृष्टत्वात् । शब्दस्यापि स्वभावखण्डनेऽनित्यतेत्युक्तम्।
सर्वगतत्वे चास्यात्रियमाणत्वायोगः । आवार्या हि येनावियते तदावारकम् , यथा पटो घटस्य । शब्दस्त्वावारकमध्ये तद्देशे तत्पाचे च सर्वत्र विद्यमानत्वात्कथं केनचिदा-२० वियेत ? प्रत्युत स एवावारकः स्यात् । तद्वत्तदावारकमपि सर्वगतमिति चेत्, न तावारकम् । न ह्याकाशमात्मादीनामावारकम् । मूर्त्तत्वात्तदिति चेत्, न तर्हि सर्वगतं घटादिवत् ।
अथ यावयोमव्यापिनो वहव एवास्यावारकाःते; किं सान्तराः, निरन्तरा वा ? यदि सान्तराः; न तर्हि तस्यावरणम् , तन्मध्ये २५ तद्देशे तत्पावें च विद्यमानत्वात् । अथ स्वमाहात्म्यात्तथापि स्वदेशे तदावारकाः; तॉन्तराले तदुपलम्भप्रसङ्गः । तथा च सान्तरा प्रतिपत्तिः प्रतिवर्ण खण्डशःप्रतिपत्तिश्च स्यात् । सर्वत्र सर्वदा सर्वात्मना विद्यमानत्वान्न दोषश्चेत् ; नैवम् प्रतिप्रदेशमकारादिबहुत्वस्य ध्वन्यादिवैफल्यस्य चानुषङ्गात्, तद्भावेप्यन्तराले ३० उपलम्भसम्भवात् । अथान्तरालेऽसन्तोप्यावारकाः; तडॅकमेवावारकं प्रदेशनियतं कल्पनीयं किं तद्बहुत्वेन ? अन्यत्राविद्यमानं
. १ आदिना देशकालादिर्ग्राह्यः। २ जनैः। ३ अन्धकारादिर्यथाऽऽवरणं घटस्य । ४ आवारकेण । ५ मूलपुस्तके 'अन्यत्वा-' इति ।
प्र. क० मा० ३६