SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ४२२ प्रमेयकमलमार्तण्डे ३. परोक्षपरि० कथमावारकमिति चेत् ? अन्तरालवादिति ब्रूमः । तन्मते सान्तरा। निरन्तरत्ने चैषाम् तद्वच्छब्दस्यापि निरन्तरत्वादावार्यावरकमावः लमान एवोभयत्र । अथ वस्तुस्वाभाव्यात लिमिता वायव एव तदावारकाः; ननु दृष्टे वस्तुन्येतद्वक्तं ५ शक्यम्, यथा दृष्टेऽग्नौ दाहकत्वेन 'वस्तुस्वाभाव्यादग्निर्दहति न जलम्' इत्युच्यते । न च तथाविधा वायवो दृष्टाः । नापि सन् शब्दस्तैरात्रियमाणो येनैवं स्यात् । अदृष्टकल्पनमुभयत्र समानम् । तन्न किञ्चित्तस्यावारकम् । अस्तु वा तत् , तथाप्यस्य कुतो विगमः ? ध्वनिभ्यश्चेत : नः १० तत्सद्भावावेदकप्रमाणप्रतिषेधतस्तेषामसत्त्वात् । सत्त्वे वा कुतस्तेषामुत्पत्तिः? ताल्बादिव्यापाराचेत्, न तद्वच्छब्दस्यापि तद्यापारे सत्युपलस्मतस्तत्कार्यतानुषङ्गात् । ननु खननाद्यनन्तरं व्योमोपलभ्यते, न च तत्कार्यमतोऽनैकान्तिकत्वम् । तदुक्तम् "अनैकान्तिकता तावद्धेतूनामिह कथ्यते । प्रयत्नानन्तरं दृष्टिर्नित्येपि न विरुद्ध्यते ॥१॥" [मी० श्लो० शब्दनि० श्लो० १९] “आकाशमपि नित्यं सद्यदा भूमिजलावृतम् । व्यज्यते तदपोहेन खननोत्सेचनादिभिः ॥ २॥ प्रयत्नानन्तरं ज्ञानं तदा तत्रापि दृश्यते । तेनानैकान्तिको हेतुर्यदुक्तं तत्र दर्शनम् ॥ ३॥ अथ स्थगितमप्येतदस्त्येवेत्यनुमीयते। शब्दोपि प्रत्यभिज्ञानात्प्रागस्तीत्यवगम्यताम् ॥ ४॥" [मी० श्लो० शब्दनि० श्लो० ३०-३३] तदप्यसङ्गतम् ; ध्वनीनामप्येवं ताल्वादिव्यापारकार्यत्वाभाव२५प्रसङ्गात् । एकरूपता चाकाशस्याप्यसिद्धा; स्वविज्ञानजननैक खभावत्वे हि तस्य न खननाद्यनन्तरमेवोपलब्धिः किन्तु पूर्वमपि स्यात् । तदस्वभावत्वे वा न कदाचनाप्युपलब्धिः स्याद्विशेषाभावात् । विशेषे वा एकरूपताव्याघातः । प्रत्यभिज्ञानाच्छब्दे प्राक् सत्त्वसिद्धिश्च ध्वनावपि समाना 'य एव पूर्वमकारस्य ३० व्यञ्जको ध्वनिः स एव पश्चादपि' इति प्रतीतेः। तथा च व्यञ्जन स्यापि सर्वत्र सर्वदा सद्भावे ताल्वादिव्यापारवैफल्यं सर्वत्र सर्वदा व्यङ्ग्यप्रतीतिश्च स्यात् । तन्न ताल्वादिव्यापारकार्यता ध्वनीना. मेव । अतः कथं तेषां सत्त्वमुत्पादकाभावात् ? १ जैनाः। २ शब्दो वायोरावारकः कुतो न स्यादिति जैनेनोके परः प्राहअदृष्टकल्पना स्यादिति । तस्योपरि जैनेनोच्यते ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy