________________
४२०
प्रमेयकमलमार्तण्डे [३. पदोक्षपरि० विवादो नार्थ इश्येतररूपता चैकस्य ब्रह्मवाद लमर्थयते तद्वञ्चेतनेतररूपतयाप्येकस्याऽवस्थित्यविरोधात् । घटादेरपि चैक सर्वगतत्वानुषङ्गः-'सोपि हि दृष्टप्रदेशे दृश्योऽन्यत्र चाहश्य, इति वदतो न वक्त्रं वक्रीभवेत् । सर्वत्र चास्य संस्कारे सर्व५ दोपलब्धिः स्यात्, न वा कचित्कदाचित् विशेाभावात् ।
स्वरूपंपरिपोषः संस्कारोस्य; इत्यप्यऽचर्चिताभिधानम् : नित्यस्य खभावान्यथाकरणाऽसम्भवात् । करणे वा स्वभावातिशयपक्षभावी दोषोनुषज्यते।
नापि व्यक्तिसमवायः; वर्णस्य व्यक्त्यऽसम्भवात्, अन्यथा १० सामान्यात्कोस्य विशेषः ? अत एव न तब्रहणापेक्षग्रहणेता।
नापि व्यञ्जकसन्निधानमात्रम्; सर्वत्र सर्वदा सर्वप्रतिपत्तृभिः सर्ववर्णानां ग्रहणप्रसङ्गात् । ननु प्रति नियतेन ध्वनिना प्रतिनियतो वर्णः संस्कृतः प्रतिनियतेनैव प्रतिपत्रा प्रतीयते तथैव सामर्थ्यात् । उक्तं च
“विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः। नरैः सामर्थ्य भेदाच न सर्वैरवगम्यते ॥१॥ यथैवोत्पद्यमानोयं न सर्वैरवगम्यते । दिग्देशाद्यविभागेन सर्वान्प्रति भवन्नपि ॥२॥ तथैव यत्समीपस्थैर्नादैः स्याद्यस्य संस्कृतिः। तैरेव श्रूयते शब्दो न दूरस्थैः कथञ्चन ॥ ३॥"
[मी० श्लो० शब्दनि० श्लो० ८३-८६] इति । तदप्यपेशलम् ; तेषां तदुपलम्भाऽसामर्थ्य सर्वदाऽनुपलम्भप्रसङ्गादधिरवत् । यदा तत्समीपस्थैर्व्यञ्जकैय॑ज्यतेऽसौ तदा
तैरेवोपलभ्यते इत्यप्यसुन्दरम्; यतस्तेषां व्यञ्जकैः किं क्रियते २५ येन ते तैर्नियमेनापेक्षन्तेऽकिञ्चित्करेऽपेक्षाऽसम्भवात् ? तहणे योग्यतेति चेत् । किमात्मनः, शब्दस्य, इन्द्रियस्य वा? आद्यविकल्पद्वये सर्वदोपलम्भोऽनुपलम्भो वा स्यात् । इन्द्रियसंस्कारस्तु निराकरिष्यते।
१ ( एकस्यैव शब्दस्य दृश्यत्वादृश्यत्वरूपतास्वीकारादद्वैतं सिद्धतीत्यर्थः) । २ ब्रह्मवादसमर्थने हेतुमाह । ३ द्वितीयपक्षोयम् । ४ संस्कृतत्वेन । ५ ध्वनिभिः । ६ स स्वभावस्ततो भिन्नोऽभिन्नो वा ? भिन्नश्चेन्न तैर्ध्वनिभिः शब्दस्य करणम् इत्यादिः । ७ अन्यथा शब्दस्य व्यक्तिसत्त्वे सामान्यतादिरूपताप्रसङ्गोपि स्यादित्यर्थः । ८ तस्य शब्दसंस्कारस्य । ९ शब्दस्य ।