________________
सू० ३।९९] शब्दनित्यत्ववादः
४१९ "स्याच्छब्दस्य हि संस्कारादिन्द्रियस्योभयस्य वा।"
[मी० श्लो० शब्दनि० श्लो० ५२] "स्थिरवाय्यपनीत्या च संस्कारोस्य भवन्भवेत्।"
मी० श्लो० शब्दनि श्लो०६२] इत्यभिधानात् ।
तत्राद्ये पक्षे कोयं शब्दसंस्कारः-शब्दस्योपलब्धिः, तस्यात्मभूतः क्वचिदतिशयः, अनतिशयव्यावृत्तिवी, स्वरूपपरिपोषो वा, व्यक्तिसमवायो वा, तद्हणापेक्षग्रहणता वा, व्यञ्जकसन्निधानमात्रं वा, आवरणविगमो वा स्यात् ? यदि शब्दोपलब्धिः, कथमसौ ध्वनीनां गमिका शब्दे श्रोत्रमात्रभावित्वात्तस्याः? तथाप्य-१० न्यानिमित्तकल्पने हेतूनामनवस्थितिः स्यात् ।।
तस्यात्मभूतः कश्चिदतिशयोऽनतिशयव्यावृत्तिर्वा इत्यत्रापि अतिशयो दृश्यखभाव एव,अनतिशयव्यावृत्तिस्त्वदृश्यखभावखण्डनमेव । ते चेत्ततोऽन्ये; तत्करणेपि शब्दस्य न किञ्चित्कृतमिति तदवस्थाऽस्याऽश्रुतिः । अथाऽनन्ये; तदा शब्दस्यापि कार्यतया १५ अनित्यत्वानुषङ्गः । यो हि यस्मादसमर्थवभावपरित्यागेन समर्थस्वभावं लभते स चेन्न तस्य जन्यः; केंदानीं जन्यताव्यवहारः? न च समर्थस्वभाव एव जन्यो न शब्दः इत्यभिधातव्यम्: तस्याऽतो विरुद्धधर्माध्यासतो भेदानुषङ्गात् । तत्र चोक्को दोषः।
श्रोत्रप्रदेशे एव चास्य संस्कारे तावन्मात्रक एव शब्दः,२० न सर्वगतः स्यात् । तस्यैवान्यत्र तद्विपर्ययेणावस्थाने दृश्याssदृश्यत्वप्रसङ्गात् निरंशत्वव्याघातो विप्रतिपत्त्यभावश्चास्य परिणामित्वप्रसिद्धः । यदस्माभिः 'श्रावणखभावविनाशोत्पत्तिमपुद्गलँद्रव्यम्' इत्यभिधीयते तद्युष्माभिः 'वर्णः' इत्याख्यायते । यौ च श्रावणस्वभावोत्पादविनाशौ शब्दोत्पादविनाशा-२५ वस्माभिरिष्टौ तौ युष्माभिः शब्दाभिव्यक्तितिरोभावाविति नान्नैव
१ शब्दस्य । २ नियमाभावः। ३ शब्दस्य । ४ तस्य अतिशयस्य अनतिशयव्यावृत्तेर्वा । ५ शब्दस्य। ६ शब्दात् । ७ ध्वनेः। ८ असमर्थस्वभावःपूर्वावस्था ( शब्दाप्राकट्यम् ) । ९ अपि तु न कापीत्यर्थः। १० शब्दस्य । ११ श्रोत्रप्रदेशादन्यत्र । १२ स्वभावस्य जन्यता शब्दस्य त्वजन्यतेति भेदे । १३ सर्वगतत्वे च शब्दस्य । १४ शब्दस्य । १५ जनैः। १६ पुद्गले एव श्रावणखभावतोत्पद्यते नश्यति च। १७ तदेव शब्दः। १८ मीमांसकैः। १९ शब्द. रूपः। २० जैनैः। २१ मीमांसकैः ।