________________
४१८
प्रमेयकसलमार्तण्डै
३. परोक्षपरिक
यत्पुनरुक्तम्-व्य ध्वन्यधीनत्वात्तदेशे स च गृह्यते। इत्यादिः तत्र कुतो ध्वन्यः प्रतिपन्ना येन तद्धीना शब्दश्रुतिः स्थात् ? प्रत्यक्षेण, अनुमानेन, अर्थापत्त्या वा? प्रत्यक्षेण
चत्किं श्रोनेण, स्पर्शनेन वा? न तावच्छोत्रेण तथा प्रतीत्यभा५वाद न खलु शब्दवत्तत्र ध्वनयः प्रतिभासन्ते विप्रतिपत्त्यभावप्रसङ्गात् । तत्र ध्वनिप्रतिभासे चापरशब्दकल्पनावैयर्थ्यमित्युक्तम् । अथ स्पार्शनप्रत्यक्षेण ते प्रतीयन्ते-स्वकरपिहितवदनो हि वदन् स्वकरसंस्पर्शनेन तान्प्रतिपद्यते, वदतो मुखाग्रे स्थित
तूलादेः प्रेरणोपलम्सादनुमानेनेति तद्प्यसाम्प्रतम् ; वायुवत्ता१० ल्वादिव्यापारानन्तरं कफांशानामप्युपलम्मेन शब्दाभिव्यञ्जकत्व
प्रसङ्गात् । वक्तवक्त्रप्रदेश एवैषां प्रक्षयेण श्रोतृश्रोत्रप्रदेशे गमनाभावान्न तत्; इत्यन्यत्रापि समानम् । न हि वायवोपि तत्र गच्छन्तः समुपलभ्यन्ते । शब्दप्रतिपत्त्यन्यथानुपपत्त्या प्रतिपत्तिस्तूभयत्रसमाना । यथा च स्तिमितभाषिणो न कफांशोपलम्भ१५स्तथा वायूपलम्भोपि नास्ति । स्तिमितस्य कल्पनमुअयत्र समानम् । तन्न प्रत्यक्षेणानुमानेन वा तत्प्रतिपत्तिः।
अथार्थापत्त्या तेषां प्रतिपत्तिः, तथाहि-शब्दस्तावन्नित्यत्वानोत्पद्यते संस्कृतिरेव तु क्रियते । सा च विशिष्टा नोपपद्येत
यदि ध्वनयो न स्युः। तदुक्तम्२० "शब्दोत्पत्तेनिषिद्धत्वादन्यथान्द्रपपत्तितः।
विशिष्टसंस्कृतेर्जन्म ध्वनिभ्यो व्यवसीयते ॥ १॥ तद्भावभाविता चात्र शत्यस्तित्वाववोधिनी । श्रोत्रशक्तिवदेवेष्टा वुद्धिस्तत्र हि संहता ॥२॥
कुंड्यादिप्रतिबन्धोपि युज्यते मातरिश्वनः। २५ श्रोत्रादेरभिघातोपि युज्यते तीव्रवर्तिना ॥ ३॥"
[मी० श्लो० शब्दनि० श्लो० १२६-१२९] इति; तत्र केयं विशिष्टा संस्कृति म-शब्दसंस्कारः, श्रोत्रसंस्कारः, उभयसंस्करो, वा? परेणं हि त्रेधा संस्कारोऽभ्युपगम्यते । सच
१ शब्दस्य अभिव्यक्तिः । २ निश्चीयते । ध्वनयः सन्ति शब्दसंस्कारान्यथानुपपत्तेरिति। ३ तद्भावमावित्वमसिद्धमित्युक्ते आह बुद्धिरिति । बुद्धिः प्रत्यक्षबुद्धिः। ४ नियता । ५ शब्दस्यामूर्तत्वे कुड्यादिप्रतिबन्धो न स्याच्छोत्राभिघातो वा न स्यादित्युक्ते आह । ६ शब्दव्यशकवायोः। ७ शब्दव्यजकवायुना। ८ ध्वनेः सकाशात् । ९ मीमांसकेन ।