________________
सू० ३।९९] शब्दनित्यत्ववादः
तदप्यचारु भ्रान्तेनाऽभ्रान्तस्य व्यभिचाराऽयोगात् । शन्दे हि महत्त्वादिप्रत्ययोऽभ्रान्तो वाधवर्जितत्वादित्युक्तम् । मुखे तु भ्रान्तो विपर्ययात् । न चान्यस्य भ्रान्तत्वेऽन्यस्यापि तत्, अन्यथा सकलशून्यतानुषङ्गः-स्वप्नादिग्रत्ययवत्सकलप्रत्ययानां भ्रान्ततापत्तेः । न च खड्ने प्रतिविम्वितदीर्घतया मुखमेवाssभाति दर्पगे तु वर्तुलतया गौरनीले काचे नीलतयाः किन्तु तदाकारस्तत्र प्रतिविम्वितस्तद्धर्मानुकारी प्रतिभाति । न च शब्दस्याप्याकारो ध्वनौ, ध्वनेर्वा शब्दे प्रतिविम्वितस्तद्धर्मानुकारी भवतीत्यभिधातव्यम् ; शब्दस्याऽमूर्त्तत्वेन मूर्ते ध्वनौ तत्प्रतिविम्बनाऽसम्भवात् । मूर्तानामेव हि मुखादीनां मूर्ते दर्पणादौ तत्प्रति १० बिम्बनं दृष्टं नाऽमूर्तानामात्मादीनाम् । न चाऽश्रोत्रग्राह्यत्वे ध्वनेः प्रतिबिम्वितोप्याकारः श्रोत्रेण ग्रहीतुं शक्योऽतिप्रसङ्गात् । तद्राह्यत्वे वा अपरशब्दकल्पना व्यर्थेत्युक्तम् । यच्चाप्युक्तम्"यथा महत्यां खातायां मृदि व्योग्नि महत्त्वधीः। अल्पायामल्पधीरेवमत्यन्ताऽकृतके मतिः ॥ तेनात्रैवं परोपाधिः शब्दवृद्धौ मतिभ्रंमः (मतिभ्रमः)! न च स्थूलत्वसूक्ष्मत्वे लक्ष्येते शब्दवर्तिनी ॥"
[मी० श्लो० शब्दनि० श्लो० २१७-२१९] तदप्यसमीचीनम्। व्योन्नोऽतीन्द्रियत्वेन महत्त्वादिप्रत्ययवि-२० षयत्वायोगात् । तद्योगे चाल्पया खातयाऽवष्टब्धो व्योमप्रदेशोऽल्पो महत्या च महानिति नाऽनेनाऽनेकान्तः । निरवयवत्वे हि तस्याणुवद्व्यापित्वासम्भवः, अत्यन्ताकृतकत्वेन च क्रमयोगपद्याभ्यामर्थक्रियाविरोध इति वक्ष्यते । तथा शब्दस्यापि सावयवत्वाभ्युपगमे
"पृथर न चोपलभ्यन्ते वर्णस्यावयवाः कचित् । न च वर्णेष्वनुस्यूता दृश्यन्ते तन्तुवत्पटे ॥ १॥ तेषामनुपलब्धेश्च न जाता लिङ्गतो गतिः। नागमस्तत्परश्चास्मिन्नाऽदृश्ये चोपमा क्वचित् ॥२॥ न चास्यानुपपत्तिः स्याद्वर्णस्यावयवैर्विना। यथान्यावयवानां हि विनाप्यवयवान्तरैः॥ ३॥ प्रत्यक्षेणावबुद्धश्च वर्णोऽवयववर्जितः। किन्न स्यायोमवञ्चात्र लिङ्गं तद्रहिता मतिः॥४॥"
[मी० श्लो० स्फोटवा० श्लो० ११-१४] इति वचो विरुद्ध्येत ।