________________
४१६
२५
प्रमेयकमलमार्त्तण्डे
वर्णान्तरजनी तावत्पदत्वं विहन्यते । अयदं हि भवेदेतद्यदि वा स्यात्पदान्तरम् ॥ वर्णोऽवयवत्वात् वृद्धिहासौ न गच्छति । व्योमादिवदतो ऽसिद्धा वृद्धिरस्य स्वभावतः ॥”
[ मी० लो० शब्दनि० लो० २१०-२१३] अत्रोच्यते - किं कारणानुविधायित्वमल्पत्वमहत्त्वयोः स्वभावसिद्धत्वादसिद्धम्, आहोस्विकारणाल्पत्वमहत्त्वाभ्यां शब्दस्याल्पत्वमहत्त्वे एव न विद्येते स्वभावतस्तद्रहितत्वात् इति ? तत्राद्यपक्षे स्वभावे एव वास्याऽल्पत्वमहत्त्व विद्येते, न तु ते १० तस्य कारणाल्पत्वमहत्त्वाभ्यां कृते इत्यायातम्, तथा च घटादेरपि तथा तत्सत्त्वप्रसङ्गः । निर्हेतुकत्वेन सर्वदा भावानुषङ्गश्वोभयत्र समानः । द्वितीयस्तु पक्षोऽसङ्गतः; तयोस्तत्र प्रतीयमानत्वेन स्वभावतस्तद्रहितत्वासिद्धेः । न खलु महति ताल्वादो महानऽल्पे चाल्पः शब्दो न प्रतीयते, सर्वत्र तयोरनाश्वास१५ प्रसङ्गात् ।
यदयुक्तम्- ' न हि वर्णों वर्द्धते' इत्यादिः तत्र यदि तावत् 'अल्पताल्वादिजनितो वर्णादिरल्पो महतस्तात्वादिव्यापारान्न वर्द्धते' इत्युच्यते तदा सिद्धसाधनम् । न हि घटोऽल्पान्मृपिण्डात्तथाविधो जातोऽन्यतः स एव वर्द्धते अघटत्वप्रसङ्गात्, २० घटान्तरमेव वा स्यात् । अथान्यपि वृद्धिमान्न जायते; तन्न; तथाविधस्य दृष्टत्वात् । दृष्टस्य चाऽपह्नवाऽयोगात् ।
[ ३. परोक्षपरि०
३५
एतेनैतन्निरस्तम्
"अथ ताद्रूष्यविज्ञानं हेतुरित्यभिधीयते । तथापि व्यभिचारित्वं शब्दत्वेपि हि तन्मतिः ॥ १ ॥ व्यक्तत्यल्पत्वमहत्त्वे हि तद्यथानुविधीयते । तथैवानुविधातायं ध्वन्यल्पत्वमहत्त्वयोः ॥ २ ॥'
[मी० श्लो० शब्द नि० श्लो० २१३-२१४] इति । सदृशपरिणामो हि सामान्यम् । तस्य च वर्णवद्ऽल्पत्वमहत्त्वसम्भवात् कथं तेनानेकान्तः ? भवत्कल्पितं तु सामान्यमग्रे ३० निषिद्धत्वात्वरविषाणप्रख्यमिति कथं तेन व्यभिचारोद्भावनम् ? यदप्युच्यते
व्यङ्ग्यानां चैतदस्तीति लोकेप्यैकान्तिकं न तत् । दर्पणाल्पमहत्त्वे हि दृश्यतेऽनुपतन्मुखम् ॥ १॥ न स्याद्व्यङ्ग्यता तस्मिंस्तत्क्रियाजन्यतापि वा । न चास्योच्चारणादन्या विद्यते जनिका क्रिया ॥ २ ॥” [मी० लो० शब्दनि० लो० २१५-२१७]