________________
सू० ३१९९] शब्दनित्यत्ववादः
एतेन वुद्धिमन्दत्वेऽल्पता निरस्ता । न खलु मन्दतेजसः प्रकाशिते घटादौ महति वुद्धिमन्दत्वेनाल्पत्वप्रतीतिरस्ति । ततो 'महाताल्वादिव्यापारे महत्त्वादिधर्मायेतोऽल्पे चाल्पत्वादिधर्मापेतः शब्द एवोत्पद्यते' इत्यभ्युपगन्तव्यम् ।
यदि च ताल्वादयो ध्वनयो वास्य व्यञ्जका तर्हि तद्यापारे ५ तद्धमापेतस्यास्य नियमेनोपलब्धिर्न स्यात् । कारकव्यापारो ह्येपःस्वसन्निधाले नियमेन्द्र कार्यसन्निधापनं नाम, न व्यञ्जकव्यापारः न खलु यत्र यत्र व्यञ्जका प्रदीपादिस्तत्र तत्र व्यङ्ग्यवटादिलनिधापनमुपलब्धिर्वा नियमतोस्ति, अन्यथा तयोरविशेषप्रसङ्गात्, चक्रादिव्यापारवैयर्थ्यानुषगाच्च। अथ घटादेरसर्वगतत्वान्न १० तयञ्जनसन्निधाने सर्वत्रोपलम्भः, शब्दस्य तु सम्भवति विपर्ययात्; इत्यप्यनिरूपिताभिधानम्; तस्य सर्वगतत्वाऽसिद्धेः । तथाहि-न सर्वगतः शब्दः सामान्यविशेषवत्त्वे सति वाहोंकेन्द्रियप्रत्यक्षत्वाद् घटादिवत् । ततो घटादिभ्यः शब्दस्य विशेषाभावादुभयोः कार्यत्वं व्यङ्ग्यत्वं चाभ्युपगन्तव्यम्।
किञ्च, एते ध्वनयः श्रोत्रग्राह्याः, न वा ? श्रोत्रग्राह्यत्वे अत एव शब्दाः तल्लक्षणत्वात्तेषाम् । तत्र च तात्त्विका एवोदात्तायो धर्माः । तथा चापरशब्दकल्पनानर्थक्यम् । अथ न श्रोत्रग्राह्याः; कथं तर्हि तद्धर्मा उदात्तादयस्तद्राह्याः? न हि रूपा. दीनां धर्मा भासुरत्वादयो रूपादेरग्रहणे श्रोत्रेण गृह्यन्ते ।२० अथ न भावतस्तेन ते गृह्यन्ते, किन्त्वारोपात् । ननु चाऽगृहीतस्यारोपोपि कथम् ? अन्यथा भासुरत्वादेरपि तत्रारोपः स्यात् । अथ व्यञ्जकत्वाद् ध्वनीनां तद्धर्मा एव तत्रारोप्यन्ते, न रूपादीनां विपर्ययात्। ननु ज्ञानजनकत्वान्नापरं व्यञ्जकत्वम् । तथा सत्यल्पेन चक्षुपा व्यज्यमानः पर्वतो महानपि २५ तद्धर्मारोपात्तत्परिमाणतया प्रतीयेत सर्षपश्च वृहत्परिमाणतया, न चैवम् । तनैते ध्वनिधर्मा उदात्तादयोऽपि तु शब्दधर्माः। तथाप्यस्यैकव्यक्तिकत्वे घटादेरपि तदस्तु विशेषाभावात् ।
ननु चास्यैकत्वे नभोवत्कारणानायत्तत्वान्न तदुत्कर्षापकर्षाभ्यामुत्कर्षापकर्षों स्याताम्; तच्छन्दपि समानम्-तस्यापि हि ३० प्रत्येकमेकव्यक्तिकत्वे ताल्वोत्कर्षाऽपकर्षाभ्यामुत्कर्षापकर्षयोगो न स्यात्, किन्तु सर्वत्र तुल्यप्रतीतिविषयता स्यात् । ननु चासिद्धं ताल्वादेर्महत्त्वादेः शब्दस्य महत्त्वादिकम् । तथाहि
"कारणानुविधायित्वं यच्चाल्पत्वमहत्त्वयोः। तदसिद्धं न वर्णो हि वर्द्धते न पदं क्वचित् ॥
३५