SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ४१० प्रमेशकालमार्तण्डे [३. परोक्षपरि० असाधारणरूपेण र तादामप्रतिमासनात्, अथ धूमसामान्यमेवाशिमलिपतिकारणम्, न व्यक्तिलादृश्यव्यतिरेकेण तदसम्भवात् । न च धूमत्वान्मया प्रतिपन्नोग्निः' इति प्रतिपत्तिः, किन्तु धूमात् । सा च सामान्यविशिष्टव्यक्तिमात्रयोः सम्बन्ध५ग्रहले घटते । न तु धूमाग्निसामान्ययोरवश्यं चानुमेयानुमापकयोः सामान्यविशिष्टविशेषरूपतोपगन्तव्या, अन्यथा सामान्यमात्रस्य दाहाद्यर्थक्रियासाधकत्वाऽभावात् ज्ञानाद्यर्थक्रियायाश्च तत्साध्यायास्तदेवोत्पत्तेः, दाहाद्यार्थिनामनुमेयार्थप्रतिभासात प्रवृत्त्यभावतोऽस्याप्रामाण्यप्रसङ्गः । सामान्यविशिष्टविशेषरूपता १० चात्र वाच्यवाचकयोरपि समादा न्यायस्य समानत्वात् । यदप्युक्तम्"सदृर्शत्वात्प्रतीतिश्चेत्तद्वारेणाप्यवाचकः। कस्य चैकस्य सादृश्यात्कल्प्यतां वाचकोऽपरः॥१॥ अदृष्टसङ्गतत्वेन सर्वेषां तुल्यता यदा। अर्थवान्पूर्वदृष्टश्चेत्तस्य तावान्क्षणः कुतः ॥ ३॥ द्विस्तावानुपलब्धो हि अर्थवान्सम्प्रतीयते।" [मी० श्लो० शब्दनि० श्लो० २४८-२५०] - इत्यादि; तदप्यसारम् ; अनुमानवातॊच्छेदप्रसङ्गात् । धूमादि लिङ्गात्पूर्वोपलब्धधूमादिसादृश्यतोग्न्यादिसाध्यप्रतिपत्तावप्यस्य २० सर्वस्य समानत्वात्। एतेनैवमपि प्रत्युक्तम्__ "शब्द तावदनुच्चार्य सम्बन्धकरणं कुतः। न चोच्चारितनष्टस्य सम्बन्धेन प्रयोजनम् ॥” [मी० श्लो० शब्दनि० श्लो० २५६] इत्यादि । २५ यतोऽदृष्टे धूमे सम्बन्धो न शक्यते कर्तुम् । नापि दृष्टनष्टस्यास्य सम्बन्धेन प्रयोजनं किञ्चित् । १ शब्दपक्षे शब्दसामान्यमेवार्थप्रतिपत्तिकारणमिति वाच्यम् । २ धूमसामान्यात् । ३ सादृश्यपरिणामविशिष्ट व्यक्तिरेव मात्रा स्वरूपं ययोः साध्यसाधनयोस्तयोः । ४ साध्यसाधनयोः । ५ शब्दस्योच्चारणसमये, अश्याद्यनुमानसमये च। ६ विशेषे पर्वतादौ । ७ सामान्यस्य । ८ नहीत्यादिपूर्वोक्तस्य । ९ संकेतकालोपलब्धशब्देन व्यवहारकालोपलब्धशब्दस्य । १० तदेति शेषः । कथमवाचक इत्युक्ते कस्येत्याह । कस्य संकेतकालोपलब्धस्य । ११ व्यवहारकालोपलब्धः शब्दः। १२ अदृष्टसंबन्धेन। १३ शब्दानाम् । १४ वाच्यवाचकसंबन्धवान् शब्दः । १५ द्विवारम् । १६ वाच्येन सह। १७ साध्येनामिना सह ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy