SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे (३. परोक्षपरि० कश्चिदाह-ल त सवितेक्ष्यते तस्य नास्ति व्यवस्थानात, तन्निमित्तानि तु तेयुप्रतिविम्दानि प्रतीयन्ते, ततो नानेकान्तः । आहेलेन निसित्तेन प्रतिपात्रं पृथक् पृथक् । भिन्नानि प्रतिविम्वानि गृह्यन्ते युगपन्मया ॥१॥" [मी० श्लो० शब्दनि० श्लो० १७९ ] एतत्कुमारिलः परिहरन्नाह "अत्र ब्रूमो यदा यावजले सौर्येण तेजसा। स्फुरता चाक्षुपं तेजः प्रतिस्नोतः प्रवर्तितम् ॥१॥ खदेशमेव गृह्णाति सवितारमनेकधा। १० भिन्नमूर्ति यथापात्रं तैदास्यानेकता कुतः॥२॥" [मी० श्लो० शब्दनि० श्लो० १८०-१८१] यथा च प्रदीपः। "ईषत्सम्मिलितेऽङ्गुल्या यथा चक्षुषि दृश्यते । पृथगेकोपि भिन्नत्वाञ्चक्षुवृत्तेस्तथैव नः ॥ १॥ अन्ये तु चोदयन्त्यत्र प्रतिबिम्बोदयैषिणः । स एव चेत्प्रतीयेत कस्मान्नोपरि दृश्यते ॥२॥ कूपादिषु कुतोऽधस्तात्प्रतिबिम्बाद्विनेक्षणम् । प्राङ्मुखो दर्पणं पश्यन् स्याच्च प्रत्यङ्मुखः कथम् ॥ ३॥ तत्रैव वोधयेदर्थ वहिर्यातं यदीन्द्रियम् । २० तत एतद्भवेदेवं शरीरे तत्तु बोधकम् ॥ ४॥" [मी० श्लो० शब्दनि० श्लो० १८२-१८५] अत्राह"अप्सूर्यदर्शिनां नित्यं द्वेधा चक्षुः प्रवर्त्तते । एकमूर्द्धमधस्ताच्च तत्रोशिप्रकाशितम् ॥ १॥ २५ अधिष्ठानानृजुत्वाच्च नात्मा सूर्य प्रपद्यते। पारम्पयर्पितं स तमाग्वृत्या तु वुध्यते ॥२॥ १ जैनादिः। २ स सूर्यो निमित्तं येषां तानि। ३ सूर्येण। ४ नानात्वेन । ५ क्रियाविशेषणमेतत् । ६ पात्राण्यनतिक्रम्य । ७ यदा दृश्यते। ८ अग्रेतनश्लोकान्तर्वथाशब्दः केन सह सबन्धनीय इत्यन्वयाथों 'यथा च प्रदीपः' शब्द उक्तः। ९ एक एव सविता नाना कथं दृश्यते इत्याह ईषदिति । १० नानारूपेण । ११ चक्षुःप्रवृत्तिर्नानारूपास्ति यत इत्यर्थः। १२ नः अस्माकमपि, तथैव प्रदीपप्रकारेणैव । एकोप्यादित्यो नानात्वेन दृश्यते चक्षुषः प्रवृत्तभिन्नत्वात् । १३ कूपादिषु कुत इत्यस्य समाधानमिदमवेतनम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy