SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ सू० ३।९९] शब्दनित्यत्ववादः ४०७ "यो यो गृहीतः सर्वस्सिन्देशे शब्दो हि विद्यते । न चास्याऽवयवाः सन्ति येन वर्तेत भागशः॥२॥ शब्दो वर्त्तत इत्येव तत्र सर्वात्मकश्च सः। व्यञ्जकध्वन्यऽधीनत्वात्तद्देशे न च गृह्यते ॥ ३॥ नं च ध्वनीनां सामर्थ्य व्यातुं व्योम निरन्तरम् । तेनाऽविच्छिन्नरूपेण नासौ सर्वत्र गृह्यते ॥४॥ ध्वनीना मिनदेशत्वं श्रुतिस्तत्रानुरुद्धाते। अपूरितान्तरालत्वाद्विच्छेदश्वावसीयते ॥ ५॥ तेषां चाल्पकदेशत्वाच्छब्देप्यऽविभुतामतिः। गतिमद्वेगवत्त्वाभ्यों ते चायान्ति यतो यतः॥६॥ १० श्रोता ततस्ततः शब्दमायान्तमिव मन्यते ।" [मी० श्लो० शब्दनि० श्लो० १७२-१७५] अथैकेन भिन्न देशोपलम्भाद् घटादिवन्नानात्वम् ; न; आदित्येनानेकान्तात् । दृश्यते ह्येकेनादित्यो भिन्नदेशः, न चैतावतासौ नाना । अथ 'युगपदेकेन भिन्नदेशोपलब्धेः' इति विशेष्योच्यते; १५ तथाप्यनेनैवानेकान्तः। जलपात्रेषु हि भिन्नदेशेषु सवितैकोप्येकेन युगपद्भिनदेशो गृहाते । उक्तं च "सूर्यस्य देशभिन्नत्वं न त्वेकेन न गृह्यते । न नाम सर्वथा तावदृष्टस्यानेकदेशता ॥१॥ सविशेषेण हेतुश्चेत्तथापि व्यभिचारिता। दृश्यते भिन्नदेशोयमित्येकोपि हि वुध्यते ॥२॥ जलपात्रेषु चैकेन नानैकः सवितेक्ष्यते। युगपन्न च भेदेस्य प्रमाणं तुल्यवेदनात् ॥ ३॥" [ मी० श्लो० शब्दनि० श्लो० १७६-१७८] १ प्रत्यभिज्ञानाच्छब्दस्य व्यापकत्वं कथमित्युक्ते आह । २ अवयवसद्भावात् खण्डशो वर्तते इत्युक्ते आह। ३ भागशो न वर्तते तर्हि कथं वर्तते इत्युक्ते आह । ४ सर्वत्र विद्यते चेत्तर्हि सर्वत्रैवोपलम्भः स्यादित्युक्ते आह । ५ ध्यनयोपि सकलदेशं कथं न व्याप्नुवन्तीत्युक्ते आह । ६ नानादेशेषूपलभ्यमानत्वम् । ७ शब्दश्रवणम् । ८ शब्दव्यञ्जकवायूनाम् । ९ अत एव श्रवणव्यभिचारो दृश्यते। १० गति:क्रियारूपा । वेगः=संस्कारविशेषः। ११ भिन्नदेशश्चेदुपलभ्यते तदा भिन्नदेशो भविष्यतीत्युक्ते आह नेति। १२ सूर्यस्य । १३ युगपदिति । १४ कथं व्यभिचारो दृश्यते इत्यारेकायामाह । १५ एकः सूर्यो भिन्नदेशतया कथं वुध्यते इत्युक्ते आह । १६ एवं चेत्तर्हि सूर्यो नानारूपो भविष्यतीत्युक्ते आह । १७ आदित्य आदित्य इति समानरूपतावेदनाद्धेतोरेक एवायमित्युनुमीयते । न चास्य भेदे प्रमाणं किंचिदित्यर्थः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy