________________
सू० ३१९९]
वेदापौरुषेयत्वविचारः
पुरुषपूर्वकत्वेनास्य साध्यविशेषणस्य सुप्रसिद्धत्वात् । न च हेतोः स्वरूपासिद्धत्वम्, तद्वचनरचनातु विशेपंग्राहकप्रमाणाभावेनास्याऽभावात् ।
न चाप्रामाण्यामावलक्षणो विशेषस्तत्रेत्यभिधातव्यम् । तस्य विद्यमानस्यापि तनिराकारकत्वाभावात् । यादृशो हि विशेषः५ प्रतीयमानः पौरुषेयत्वं निराकरोति ताशयास्याऽभावादऽविशिष्टत्वम् न पुनः सर्वथा विशेषाभावात् , एकान्तेनाऽविशिटस्य कस्यचिद्वस्तुनोऽभावात् । अप्रामाण्यामावलक्षणश्च विशेपो दोषवन्तमप्रामाण्यकारणं पुरुपं निराकरोति न गुणवन्तमप्रामाण्यनिवर्त्तकम् । न च गुणवतः पुरुषस्याभावादन्यस्य चानेन १० विशेषेण निराकृतत्वात्सिद्धमेवापौरुषेयत्वं तत्रेत्यभ्युपगन्तव्यम्; तत्सद्भावस्य प्रोकप्रतिपादितत्वात् । तद्भावेऽप्रामाण्याभावलक्षणविशेषाभावप्रसङ्गाच्च। · पौरुषेये प्रासादादौ हेतोदर्शनादपौरुषेये चाकाशादावऽदर्शनानानकान्तिकत्वम् । अत एव न विरुद्धत्वम् ; पक्षधर्मत्वे हि सति १५ 'विपक्षे वृत्तिर्यस्य स विरुद्धः, न चास्य विपक्षे वृत्तिः। नापि कालात्ययापदिष्टत्वम् ; तद्धि हेतोः प्रत्यक्षागमवाधितकर्मनिर्देशानन्तरप्रयुक्तं भवतेष्यते । न च यत्र खसाध्याविनाभूतो हेतुर्मिणि प्रवर्त्तमानः खसाध्यं प्रसाधयति तत्रैव प्रेमाणान्तरं प्रवृत्तिमासादयत्तमेव धर्म व्यावर्त्तयति; एकस्यैकदैकत्र विधिप्रतिषेधयो-२० विरोधात् । प्रकरणसमत्वमपि प्रतिहेतोर्विपरीतधर्मप्रसाधकस्य प्रकरणचिन्ताप्रवर्तकस्य तत्रैव धर्मिणि सद्भावोऽभिधीयते । न च स्वसाध्याविनाभूतहेतुप्रलाधितधर्मिणः विपरीतधर्मोपेतत्वं सम्भवतीति न विपरीतधर्माधायिनो हेत्वन्तरस्य तत्र प्रवृत्तिरिति । तन्न वेदपवाक्योर्नित्यत्वं घटते ।
२५
१ पौरुषेयत्वस्य । २ लौकिकं नररचितरचनाऽविशिष्टं वैदिकं नेति भेदः। ३ पौरुषेयत्व । ४ वैदिकलौकिकशब्दयोरभिन्नत्वम् । ५ अविभिन्नत्वम् । ६ सर्वथा वैदिकलौकिकशब्दयोरविशेषादमेदो भविष्यतीत्युक्त आह । ७ सर्वप्रकारेण । ८ अभेदरूपस्य। ९ वैदिकलौकिकशब्दयोरतीन्द्रियार्थेन्द्रियार्थप्रतिपादकत्वाद्भेदो यतः । १० वेदे । ११ सर्वशसिद्धिप्रस्तावे। १२ यथा शब्दो नित्यः कृतकत्वादिति कृतकत्वस्य शम्दधर्मत्वेपि नित्यात्साध्याद्विपरीतेऽनित्ये विपक्षे वृत्तिमत्त्वाविरुद्धः । १३ हेतोः । १४ पक्ष । १५ ज्ञप्तिक्रियाविषयत्वात्कर्मेत्यभिधानम् । १६ प्रत्यक्षागमलक्षणम् । १७ धर्मस्य । १८ प्रतिपक्षसाधकस्य । १९ संशयात्प्रभृत्यानिश्चयात्पर्यालोचना। २० सस्प्रतिपक्षो हेतुः प्रकरणसम इति वचनात् । २१ प्रसाधकस। २२ विधिप्रतिषेधरूपयोः ।