SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ ४०४ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० नापि वर्णानां कृतज्ञत्या शब्दसानत्यानित्यत्वासिद्धौ तेषामप्यनित्यत्व सिद्धौ तेवामप्यानित्यत्वोपपत्तेः। तथाहि-अनित्यः शब्दः कृतकवाद घश्वत् । न च कृतकत्वमसिद्धम् । तथाहि-कृतका शब्दः कारणान्वयव्यतिरेकानुविधायित्वात्तद्वदेव । न चेदमप्य५ सिद्धम् । ताल्वादिकारणव्यापारे सत्येव शब्दस्यात्मलामप्रतीतेस्तदावे वाऽप्रतीतेः, चक्रादिव्यापारसद्भावासद्भावयोर्घटस्यामलाभालाभप्रतीतिवत् । ननु शब्दस्याऽदित्यत्वोपगमे ततोर्थप्रतीतिर्न स्यात् , अस्ति चासौ। ततो नित्यः शब्दः स्वार्थप्रतिपादकत्वान्यथानुपपत्तेः' इत्य१० भ्युपगन्तव्यम् । स्वार्थनावगतसम्बन्धो हि शब्दः स्वार्थ प्रतिपादयति, अन्यथाऽगृहीतसङ्केतस्यापि प्रतिपत्तुस्ततोऽर्थप्रतीतिप्रसङ्गः । सम्बन्धावगमश्च प्रमाणयसम्पाद्यः; तथाहि-यदैको वृद्धोऽन्यस्मै प्रतिपन्नसङ्केताय प्रतिपादयति-'देवदत्त गामभ्याज शुक्लां दण्डेन' इति, तदा पार्श्वस्थान्योऽव्युत्पन्नसङ्केतः शब्दार्थों प्रत्य१५क्षेतः प्रतिपद्यते, श्रोतुश्च तद्विषयक्षेपणोदिचेष्टोपलमानुमानतो गवादिविषयां प्रतिपत्तिं प्रतिपद्यते, तत्प्रतिपत्त्यन्यथानुपपत्त्या च तच्छब्दस्यैव तत्र वाचिकां शक्ति परिकल्पयति पुनः पुनस्तच्छब्दोच्चारणादेव तदर्थस्य प्रतिपत्तेः। सोयं प्रमाणत्रयसम्पाद्यः सम्बन्धावगमो न सकृद्वाक्यप्रयोगात्सम्भवति । न चाऽस्थिरस्य २० पुनः पुनरुच्चारणं घटते, तदभावे नान्वयव्यतिरेकाभ्यां वाचक शत्त्यवगमः, तंदलवान प्रेक्षावद्भिः पराववोधाय वाक्यमुच्चायेत । न चैवम् । ततः परार्थवास्योच्चारणान्यथानुपपत्त्या निश्चीयते नित्योसौ। तदुक्तम्-"देर्शनस्य परार्थत्वान्नित्यः शब्दः" [जैमिनिसू०१।१८] २५ अथ मतम्-पुनः पुनरुच्चार्यमाणः शब्दः सादृश्यादेकत्वेन निश्चीयमानोऽर्थप्रतिपत्तिं विदधाति न पुनर्नित्यत्वात् । तदसमी १ नित्यत्वमन्तरेण । २ जैनेन त्वया। ३ गृहीत । ४ प्रत्यक्षानुमानार्थापत्तीति । ५ पूर्व गुरोः सकाशात् । ६ ना। ७ बालकाय । ८ तृतीयः। ९ गुरुसन्निधौ गवानयनसमये । १० गोशब्दं श्रावणप्रत्यक्षेण, गोलक्षणमर्थ नायनप्रत्यक्षेण । ११ यं देवदत्तं प्रति वाक्यं प्रोक्तं तस्य । १२ आदिना ताडनप्रेरणादि । १३ तृतीयः । १४ शिष्यो गोलक्षणार्थे शानवान् तद्विषयचेष्टावत्त्वान्मद्वत् । १५ गोशब्दो गोलक्षणार्थवाचकशक्तियुक्तो गोप्रतीत्यन्यथानुपपत्तेरिति । १६ गो इति । १७ अनित्यस्य शब्दस्य । १८ गोशब्दे उच्चारिते गोलक्षणार्थप्रतिपत्तिर्भवति, अनुच्चारिते गोलक्षणार्थप्रतिप्रत्तिर्न भवतीति । १९ वाचकशक्त्यवगमस्य । २० शब्दः। २१ उच्चारणस्य । २२ घटोयं पुनर्देशकालान्तरे घटोयमिति ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy