SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ सू० ३१९९] वेदापौरुषेयत्वविचारः ४०१. ग्याभ्युपगमे च अपौरुषेयत्वकल्पनाऽनार्थिका तद्ववेदस्यापि प्रमाणान्तरसंवादादेव प्रामाण्योपपत्तेः । न च व्याख्यानानां संवादोऽस्ति; परस्परविरुद्धमादनानियोगादिव्याख्यानानामन्योन्यं विसंवादोपलम्भात् । किञ्च, अलौ तन्न्याख्याताऽन्द्रिार्थना, तद्विपरीतो वा १५ प्रथमपो अतीन्द्रियादीदर्शिनः प्रतियाविरोधो धर्मादो चास्य प्रामाण्योपपत्तेः "धर्म बोदलेर प्रमाण ] इत्यवधारणानुपपत्तिश्च । अथ तैद्विपरीतः कथं तर्हि तेंद्याख्यानाद्यथार्थप्रत्तिपत्तिः अयथार्थाभिधानाशङ्कया तदनुपपत्तेः ? न च मन्वादीनां सातिशय-१० प्रज्ञत्वात्तद्व्याख्यानाद्यथार्थप्रतिपत्तिः, तेषां सातिशयप्रज्ञत्वासिद्धेः । तेषां हि प्रज्ञातिशयः स्वतः, वेदार्थाभ्यासात् , अदृष्टात्, ब्रह्मणो वा स्यात् ? स्वतश्चेत् ; सर्वस्य स्याद्विशेषाभावात् । वेदार्थाभ्यासाच्चेत् किं ज्ञातस्य, अज्ञातस्य वा तदर्थस्याभ्यासः स्यात् ? न तावदज्ञातस्याऽतिप्रसङ्गात् । ज्ञातस्य चेत्, कुतस्तज्ज्ञप्तिः-स्वतः,५१ अन्यतो वा? स्वतश्चेत्; अन्योन्याश्रयः-सति हि वेदार्थाभ्यासे स्वतस्तत्परिज्ञानम् , तसिंश्च तदर्थास्यास इति । अन्यतश्चेत् । तस्यापि तत्परिज्ञानमन्यत इत्यतीन्द्रियार्थदर्शिनोऽनभ्युपगमेऽन्धपरम्परातो यथार्थनिर्णयानुपंपत्तिः। अदृष्टोपि प्रज्ञातिशयाऽसाधकः, तस्यात्मान्तरेपि सम्भवात् ।२० न तथाविधोऽदृष्टोऽन्यत्र मन्वादावेवास्य सम्भवादिति चेत् । कुतोऽत्रैवास्य सम्भवः? वेदानुष्ठानविशेषाचेत्; स तर्हि वेदार्थस्य ज्ञातत्य, अज्ञातस्य वाऽदुष्टाता स्यात् ? अज्ञातस्य चेत् । अतिप्रसङ्गः । ज्ञातस्य चेत्, परस्पराश्रयः-सिद्धे हि वेदार्थज्ञानातिशये तदानुष्ठानविशेषसिद्धिः, तत्सिद्धौ च तज्ज्ञानाति-२५ शयसिद्धिरिति । ब्रह्मणोपि वेदार्थज्ञाने सिद्धे सत्यऽतो मन्वादेस्तदर्थपरिज्ञानातिशयः स्यात् । तच्चास्य कुतः सिद्धम् ? धर्मविशेषाञ्चेत्, स १ प्रत्यक्षग्राह्येथे प्रत्यक्षं संवादकमनुमेयेथे अनुमानमेव संवादकं परोक्षेऽर्थे पूर्वापराविरोधः संवादः। २ मीमांसकमते। ३ तस्मादतीन्द्रियार्थद्रष्टुः । ४ अतीन्द्रियार्थद्रष्टुर्विपरीतस्य किञ्चिज्ज्ञस्य । ५ गोपालादीनामपि वेदार्थस्याभ्यासप्रसङ्गात् । ६ पुरुषात् । ७ परस्य तव । ८ भवेत् । ९ प्रज्ञातिशयसाधकः। १० प्रशातिशयसाधकादृष्टस्य । ११ प्रशातिशयसाधकादृष्टस्य । १२ गोपालादीनामपि वेदार्थानुष्ठानप्रसङ्गः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy