SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ४०० प्रनेत्रकमलमार्तण्डे [३. परोक्षपरि० किमर्थापत्त्या? अपनेश्चत: द इतरेन्दराश्रयानुपङ्गरत्-अर्थापत्तितो हि दुरुपामावसिद्धावप्रामाण्यासावसिद्धिः, तत्सिद्धौ चार्थीपत्तितः पुरुषाभावसिद्धिरिति । द्वितीयपक्षोप्ययुक्तः, अतीन्द्रियार्थप्रतिपादनलक्षणार्थस्यागमा५न्तरेपि सम्भवात् । __ परार्थशब्दोच्चारणान्यथानुपपत्तनित्यो वेदः, इत्यप्यसमीचीनम् ; धूमादिवत्सादृश्याप्यर्थप्रतिपत्तेः प्रतिपादयिष्यमाणत्वात् । किञ्च, अपौरुषेयत्वं प्रसज्यप्रतिपेषरूपं वेदस्याभ्युपगम्यते. पर्युदासस्वभावं वा? प्रथमपझे तकि सदुपलम्भकप्रमाणग्राह्यम् , १० उताऽभावप्रमाणपरिच्छेद्यम् ? तत्राद्यः पक्षोऽयुक्तः; सदुपलम्मक प्रमाणपञ्चकस्यापौरुषेयग्राहकत्वप्रतिषेधात् । तद्राह्यस्य तुच्छस्वभावाभावरूपत्वानुपपत्तेश्च । प्रतिक्षिप्तश्च तुच्छस्वभावाभावः प्राक्प्रवन्धेन । द्वितीयपक्षस्तु श्रद्धामात्रगम्यः, अभावप्रमाण स्याऽसम्भवतस्तेन तद्रहणानुपपत्तेः । तदसम्भवश्च तत्सामग्री१५ स्वरूपयोः प्राक्प्रवन्धेन प्रतिषिद्धत्वात्सिद्धः। अथ पर्युदासरूपं तदभ्युपगम्यते । नन्वत्रापि किं पौरुषेयत्वादन्यत्पर्युदासवृत्याऽपौरुषेयत्वशब्दाभिधेयं स्यात् ? तत्सत्वमिति चेत् तत्किं निर्विशेषणम् , अनादिविशेषणविशिष्टं वा? प्रथमपक्षे सिद्धसाध्यता; ततोऽन्यस्य वेदसत्त्वमात्रसाध्यक्षादिप्रमाणप्रसि२०द्धस्यालासिरल्युपमानात् । पौरुषेयत्वं हि कृतकत्वम् , ततश्चान्य. त्सत्त्वमित्यत्र को वै विप्रतिपद्यते ? द्वितीयपक्षः पुनरविचारितरमणीयः; वेदानादिसत्त्वे प्रत्यक्षादिप्रमाणतः प्रसिद्ध्यसम्भवस्याऽनन्तरमेव प्रतिपादितत्वात् । अस्तु वाऽपौरुषेयो वेदः, तथाप्यसौ व्याख्यातः, अव्याख्यातो २५ वा स्वार्थे प्रतीतिं कुर्यात् ? न तावद्व्याख्यातः; अतिप्रसङ्गात् । व्याख्यातश्चेत्, कुतस्तयाख्यानम्-स्वतः, पुरुषाद्वा? न तावत्वतः; 'अयमेव मदीयपद्वाक्यालामा नायम्' इति स्वयं वेदेनाऽप्रतिपादनात्, अन्यथा व्याख्याभेदो न स्यात् । पुरुषाचेत्, कथं तद्व्याख्यानात्पौरुषेयादर्थप्रतिपत्तौ दोपाशङ्का न स्यात् ? ३० पुरुषा हि विपरीतमप्यर्थ व्याचक्षाणा दृश्यन्ते । संवादेन प्रॉमा १ इति । २ नित्यत्वादपौरुवेयत्वम् । ३ वेदे। ४ जैनैः । ५ द्विजवत्सौगतानाप्यर्थप्रतीर्ति कुर्यात् । ६ वेदस्य जडत्वेन वक्तुमशक्यत्वात् । ७ यदि वेदः प्रतिपादयति । ८ भवनाविधिनियोगादिः। ९ व्याख्यानानाम् । १० व्याख्यानानाम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy