SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ सू० ३१९९] वेदापौरुषेयत्वविचारः ३९९ इत्यपि प्रत्युक्तम् ; प्राक्तनानुमानद्वयोक्ताशेषदोषाणामत्राप्यविशेषात् । आगमान्तरेप्यस्य तुल्यत्वाच्च । किञ्च, इदानीं यथाभूतो वेदाकरणसमर्थपुरुषयुक्तस्तत्केर्तृ. पुरुषरहितो वा कालः प्रतीतोऽतीतोऽनागतो वा तथाभूतः कालत्वात्साध्येत, अन्यथाभूतो वा? यदि तथाभूतः तदा सिद्ध-५ साध्यता । अथान्यथाभूतः तदा सन्निवेशादिवदऽप्रयोजको हेतुः। अथ तथाभूतस्यैवातीतस्यानागतस्य वा कालस्य तंद्रहितत्वं साध्यते, न च सिद्धसाध्यताऽन्यथाभूतस्य कालस्यासम्भवात् । नन्वन्यथाभूतः कालो नास्तीत्येतत्कुतः प्रमाणात्प्रतिपन्नम् ? यद्यन्यतः; तर्हि तत एवापौरुषेयत्वसिद्धेः किमनेन ? अत एवेति १० चेत्, ननु 'अन्यथाभूतकालाभावसिद्धावतोऽनुमानात्तद्रहितत्वसिद्धिः, तत्सिद्धेश्चान्यथाभूतकालाभावसिद्धिः' इत्यन्योन्याश्रयः । नाप्यागमतोऽपौरुषेयत्वसिद्धिः; इतरेतराश्रयानुषङ्गात् । तथाहि-आगमस्याऽपौरुषेयत्वसिद्धावप्रामाण्याभावसिद्धिः, तत्सिद्धेश्चातोऽपौरुषेयत्वसिद्धिरिति । न चाऽपौरुषेयत्वसिद्धिरिति । न १५ चाऽपौरुषेयत्वप्रतिपादकं वेदवाक्यमस्ति । नापि विधिवाक्यादऽपरस्य परैः प्रामाण्य मिष्यते, अन्यथा पौरुषेयत्वमेव स्यात्तत्पतिपादकानां "हिरण्यगर्भः समवर्ततीने" [ऋग्वेद अष्ट० ८ मं० १० सू० १२१ ] इत्यादिप्रचुरतरवेदवाक्यानां श्रवणात् । अपौरुषेयत्वधर्माधारतया प्रमाणप्रसिद्धस्य कस्यचित्पदवाक्या-२० देरसम्भवान्न तत्सादृश्येनोपमानादप्यपौरुषेयत्वसिद्धिः । नाप्यर्थापत्तेः, अपौरुषेयत्वव्यतिरेकेणानुपपद्यमानस्यार्थस्य कस्यचिदप्यभावात् । ल हाप्रामाण्यामावलक्षणो वा स्यात् , अतीन्द्रियार्थप्रतिपादनस्वभावो वा, परार्थशब्दोच्चारणरूपो वा? न तावदाद्यः पक्षः, अप्रामाण्याभावस्यागमान्तरेपि तुल्यत्वात् । न२५ चासौ तत्र मिथ्या; वेदेपि तन्मिथ्यात्वप्रसङ्गात् । अथागमान्तरे पुरुषस्य कर्तुरभ्युपगमात्, पुरुषाणां तु रागादिदोषदुष्टत्वेन तजनितस्याऽप्रामाण्यस्यात्र सम्भवात्तत्रासौ मिथ्या, न वेदे तत्राप्रामाण्योत्पादकदोषाश्रयस्य कर्तृरभावात् । नन्वत्र कुतः कर्तुरभावो निश्चितः? अन्यतः, अत एव वा? यद्यन्यतः तदेवोच्यताम् , ३० १ कालत्वादित्यनेनानुमानेन पौरुषेयत्वसाधकानुमानस्य स्वरूपं बाध्येत विषयो बेत्यादिप्रकारेण । २ वेद । ३ साधनात् । ४ तेन वेदका। ५ वेदका। ६ अस्तु वा वेदवाक्यमपौरुषेयत्वप्रतिपादकं तथापि । ७ प्रतिषेधवाक्यादेः। ८ मीमांसकैः । ९ अपरस्य प्रामाण्यं यदीष्यते। १० जातः । ११ आदौ। १२ प्रमाणाद।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy