________________
३९८
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० माण्यानाय त्यान, तदभावाच तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्येन सर्वपुरुषाणामोशत्वसिद्धिरित(रितीत)रेतराश्रयः । तन्न निर्मिशेषणोयं हेतुः प्रकृतसाध्यसाधनः। ___ अथ सविशेषणः; तदा विशेषणस्यैव केवलस्य गमकत्वाद्विशे. ५ष्योपादानमनर्थकम् । भवतु विशेषणस्यैव गमकत्वम् का नो हानिः, सर्वथाऽपौरुषेयत्वसिद्ध्या प्रयोजनात्; तद्प्ययुक्तम्, यतः कऽस्मरणं विशेषणं किमभावाख्यं प्रमाणम् , अर्थापत्तिः, अनुमानं वा? तत्राद्यः पक्षो न युक्तः, अभावप्रमाणस्य स्वरूप
सामग्रीविषयाऽनुपपत्तितः प्रामाण्यस्यैव प्रतिषिद्धत्वात्। १० किञ्च, सदुपलम्भकप्रमाणपञ्चक निवृत्तिनिवन्धनास्य प्रवृत्तिः
"प्रमाणपञ्चकं यत्र" [मी० श्लो० अभाव० श्लो०१] इत्याद्यभिधानात् । न च प्रमाणपञ्चकस्य वेदे पुरुषसद्भावावेदकस्य निवृत्तिः, पदवाक्यत्वलक्षणस्य पौरुषेयत्वप्रसाधकत्वेनानुमानस्य
प्रतिपादनात् । न चास्याऽप्रामाण्यमभिधातुं शक्यम्, यतोऽ१५ स्याऽप्रामाण्यम्-किमनेन वोधितत्वात्, साध्याविनासावित्वाभावाद्वा स्यात् ? तत्राद्यपक्षे चक्रकप्रसङ्गः, तथाहि-न यावदभावप्रमाणप्रवृत्तिन तावत्प्रस्तुतानुमानबाधा, यावच्च न तस्य वाधा न तावत्सदुपलम्भकप्रमाणनिवृत्तिः, यावच्च न तस्य निवृत्तिन तावत्तनिवन्धनाऽभावाख्यप्रमाणप्रवृत्तिः, तदप्रवृत्तौ च नानु२० मानवाधेति । द्वितीयपक्षस्त्वयुक्तः, स्वस्वाध्याविनामावित्वस्यात्र सम्भवात् । न खलु पदवाक्यात्मकत्वं पौरुषेयत्वमन्तरेण क्वचिदृष्टं येनास्य खसाध्याविनाभावाभावः स्यात् ।
एतेन कर्तुरस्मरणमन्यानुपपद्यमानं कऽभावनिश्चायकमर्थापत्तिगस्यमपौरुषेयत्वं वेदानामित्यपास्तम्; अन्यथानुपपद्यमान२५ त्वासम्भवस्या प्रांगेव प्रतिपादितत्वात् । कत्रऽस्मरणमनुमानरूपमऽपौरुषेयत्वं प्रसाधयतीत्यप्यनुपपन्नम्। प्रागेव कृतोत्तरत्वात् । एतेन"अतीतानागतौ कालौ वेदकारविवर्जितौ । कालत्वात्तद्यथा कालो वर्तमानः समीक्ष्यते ॥१॥" ]
१ अप्रामाण्याभावात् । २ अनुमानबावेति । ३ कथम् ? । ४ एव । ५ अभावप्रमाणप्रवृत्तौ प्रस्तुतानुमानबाधा तस्यां सदुपलम्भकप्रमाणनिवृत्तिस्तस्यां च पदवाक्यत्वस्य स्वसाध्याविनामावित्वमिति समर्थनपरेण ग्रन्थेन। ६ अपौरुषेयत्वं विना। ७ वेदोऽपौरुषेयः कर्बऽस्मरणान्यथानुपपत्तेः । ८ कर्तृसरणादित्यत्र । ९ पिटकादौ । १० वटे वटे वैश्रवण इत्यादिनाऽनैकान्तिकसमर्थनेन ।