________________
सू० ३१९९] वेदापौरुषेयत्वविचारः
किञ्च, यथाभूतानां पुरुषाणामध्ययनपूर्वकं दृष्टं तथाभूतानामेवाध्ययनशब्दवाच्यत्वमध्ययनपूर्वकत्वं साधयति, अन्यथाभूतानां वा? यदि तथाभूतानां तदा सिद्धसाधनम् । अथान्यथाभूतानां तर्हि सन्निवेशादिवदऽप्रयोजको हेतुः । अथ तथाभूतानामेव तत्तथा ततः साध्यते, न च सिद्धसाधनं सर्वपुरुषाणामतीन्द्रियार्थ-५ दर्शनशक्तिवैकल्येनातीन्द्रियार्थप्रतिपादकप्रेरणाप्रणेतृत्वासामर्थ्यनेशत्वात् । तदप्यसाम्प्रतम् । यतो यदि प्रेरणायास्तथाभूतार्थप्रतिपादने अप्रामाण्याभावः सिद्धः स्यात् स्यादेतत्-यौवता गुणवद्वकऽभावे तहुणैरनिराकृतैदोषैरपोहितत्वात् तत्र सापवाद प्रामाण्यम् , तथाभूतां प्रेरणामतीन्द्रियार्थदर्शनशक्तिविरहिणोषि १० कर्तुं समर्था इति कुतस्तथाभूतप्रेरणाप्रणेतृत्वासामर्थेनाऽशेषपुरुषाणामीदृशत्वसिद्धिर्यतः सिद्धसाधनं न स्यात् ?
अथ न गुणवद्वक्तृकत्वेनैव शब्देऽप्रामाण्यनिवृत्तिरपौरुषेयत्वेनाप्यस्याः सम्भवात् तेनायमदोषः। तदुक्तम्
"शब्दे दोपोद्भवस्तावद्वधीन इति स्थितम् । तभावः कचित्तावहुणवद्वक्तृकत्वतः ॥१॥ तगुणैरपकृष्टीनां शब्दे सङ्क्रान्त्यऽसम्भवात् । यद्वा वक्तुरभावेन न स्युदोषा निरीश्रयाः॥२॥"
[ मी० श्लो० सू० २ श्लो० ६२-६३] इति । तदप्यसमीचीनम् ; यतोऽपौरुषेयत्वमस्याः किमन्यतः२० प्रमाणात्प्रतिपन्नम् , अत एव वा? यद्यन्यतः; तदाऽस्य वैयर्थ्यम् । अत एव चेत्, नन्वतोऽनुमानादपौरुषेयत्वसिद्धौ प्रेरणायामप्रा
१ अधुनातनसदृशानाम् । २ असाभिरपि तथाभूतानां गुर्वऽध्ययनपूर्वकत्वं प्रतिपाद्यते । ३ अतीन्द्रियार्थदर्शिनाम् । ४ आदिना कार्यत्वादिवत् । ५ अकिञ्चित्करो हेतुस्तेषां गुर्वध्ययनपूर्वकत्वं नास्ति यतः। ६ सपक्षव्यापकपक्षव्यावृत्तो ह्युपाध्याहितसम्बन्धो हेतुरप्रयोजकः। ७ जैनानां तु मते सर्वपुरुषाणामतीन्द्रियार्थदर्शने शक्तिवैकल्यं नास्ति केषाश्चिदतीन्द्रियार्थदर्शनशक्तिरस्तीति भावः । ८ अग्निष्टोमेन यजेतेति लिङादिश्रवणानन्तरं शब्दो मां प्रेरयतीति दर्शनात् प्रेरणान्विततया कृतिः ( यागः) प्रतीयते । सा च प्रेरणा वेद इत्यर्थः। ९ तर्हि। १० न कुतोपि । ११ येन कारणेन । १२ प्रामाण्यनिराकृतत्वात् । १३ सदोषम् । १४ अप्रामाण्यभूताम् । १५ समः । १६ न तु स्वभावतः । १७ अपौरुषेयवेदवाक्यानन्तरोत्पन्नेषु स्मृतिवाक्येषु। १८ एतदेव समर्थयत्यग्रे। १९ अपौरुषेयवेदे । २० निराकृतानाम् । २१ असंबन्धादयः । २२ आश्रयः पुरुषः । २३ वेदाध्ययनवाच्यत्वादिति । २४ वेदाध्ययनवाच्यत्वस्य । २५ वेदाध्ययनवाच्यत्वात् । २६ वेदाध्ययनवाच्यत्वात् ।
प्र० क० मा० ३४