________________
३९६
प्रमेयकसलमार्तण्डे [३. परोक्षपरि० तदयुक्तम् ; यथैव हि प्रकृतहेतोः सद्भावे पौरुषेयत्वसाधकहेतोरप्रवृत्तिरभिधीयते तथा पदवाक्यत्वलक्षणहेतुसद्भावे सत्यमर्यमाणकर्तृत्वस्याप्यप्रवृत्तिरस्तु विशेषाभावात् । तन्न स्वतन्त्रसाधनमिदम् । ५ नापि प्रसङ्गसाधनम् । तत्खलु 'पौरुषेयत्वाभ्युपगमे वेदस्य तत्कषुः पुरुषस्य स्मरणप्रसङ्गः स्यात्' । इत्यनिष्टापादनखभावम् । न च कर्तृस्मरणं परस्यानिष्टम्; स हि पद्वाक्यत्वेन हेतुना तत्कर्तुः स्मरणं प्रतीयन् कथं तत्स्मरणस्याऽनिष्टतां ब्रूयात् ?
पौरुपेयत्वसाधनानुमानवाधापक्षेपि किमनेनास्य स्वरूपं वाध्यते, २० विषयो वा? न तावत्स्वरूपम्, अपौरुषेयत्वानुमानस्याप्यनेन
खरूपवाधनानुषङ्गात् ,तयोस्तुल्यवलत्वेनान्योन्यं विशेषाभावात। अदुल्य वलत्वे वा किमनुमानवाया? येनैव दोषेणास्याऽतुल्यवलत्वं तत एवाप्रामाण्यप्रसिद्धः। विषयवाधाप्यनुपपन्ना; तुल्यबलत्वेन हेत्वोः परस्परविषयप्रतिवन्धे वेदस्योभयधर्मशून्यत्वा१५ नुषङ्गात्। एकस्य वा स्वविषयसाधकत्वेऽन्यस्यापि तत्प्रसङ्गाद्
धर्मद्वयात्मकत्वं स्यात् । अतुल्यबलत्वे तु यत एवातुल्यबलत्वं तत एवाऽप्रामाण्यप्रसिद्धेः किमनुमानबाधयेत्युक्तम् ।
"वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् । २० वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा" [ मी० श्लो० अ०७
श्लो०३५५] इत्यनेनानुमानेन पौरुषेयत्वप्रसाधकानुमानस्य वाधा, इत्यपि प्रत्याख्यातम् ; प्रकृतदोषाणामत्राप्यविशेषात् ।
किञ्च, अत्र निर्विशेषणमध्ययनशब्दवाच्यत्वमपौरुषेयत्वं प्रतिपादयेत् , कञऽस्मरणविशिष्टं वा? निर्विशेषणस्य हेतुत्वे निश्चित२५ कर्तृकेषु भारतादिष्वपि भावादनैकान्तिकत्वम् ।
१ प्रकृतहेती सति पदवाक्यत्वं हेत्वन्तरं न प्रवर्तते । पदवाक्यत्वे तु सत्यपि प्रकृतो हेतुः वर्तते इति योऽसौ विशेषस्तस्याभावात् । २ वेदः सर्यमाणकर्तृकः पौरुषेयत्वाद्भारतवत् । हेतुरूपव्याप्याभ्युपगमेनानिष्टस्य साध्यरूपव्यापकाभ्युपगमस्यापादनं प्रसङ्गः। ३ जैनस्य । ४ जानन् । ५ पदवाक्यत्वलक्षण ! ६ पौरुषेयत्वाऽ-. पौरुषेयत्वानुमानयोः। ७ पौरुषेयत्वलक्षणस्य विषयस्य । ८ पदवाक्यत्वाऽमर्यमाणकर्तृकत्वलक्षणयोः। ९ अपौरुषेयत्वपौरुषेयत्वलक्षण। १० पौरुषेयत्वाऽपौरुषेयत्वलक्षण । . ११ वेदस्य । १२ अमर्यमाणकर्तृकत्वानुमानस्यापौरुषेयत्वप्रसाधनानुमानं प्रति बाधकत्वानिराकरणपरेण ग्रन्थेन । १३ विशेषणमेतत् ।। ... .... ..