SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ३९५ सू० ३।९९] वेदापौरुषेयत्ववादः यञ्चोक्तम्-तदनुष्ठानसमय इत्यादि तदागमान्तरेपि समानम् । 'न च' इति चिन्त्यताम्-न चायं नियमः-'अनुष्ठातारोऽभिप्रेतार्थानुष्ठानसमये तत्कर्तारमनुस्मृत्यैव प्रवर्तन्ते । न खलु पाणिन्यादिप्रणीतव्याकरणप्रतिपादितशाब्व्यवहारानुष्ठानसमये तदानुष्ठातारोऽवश्यन्तया व्याकरणप्रणेतारं पाणिन्यादिकमनुस्मृत्यैव प्रव-५ र्तन्त इति प्रतीतम् । निश्चिततत्समयानां कर्तृस्मरणव्यतिरेकेणाज्याशुतरं भवत्यादिसाधुशब्दोपलम्भात् । तन्न भवत्सम्बन्धिप्रत्यक्षेणानुभवाभावात् तत्र तच्छिन्नमूलम् । नापि सर्वसम्बन्धिप्रत्यक्षेण; तेन ह्यनुभवाभावोऽसिद्धः । न ह्याग्दशां 'सर्वेषां तंत्र कर्तृग्राहकत्वेन प्रत्यक्षं न प्रवर्तते' इत्यव-१० सातुं शक्यमिति तंत्र तत्स्मरणस्य छिन्नमूलत्वासिद्धरस्मर्यमाणकर्तृकत्वादित्यसिद्धो हेतुः। अथ प्रमाणान्तरेणानुभवाभावः; तन्न; अनुमानस्य आगमस्य च प्रमाणान्तरस्य तत्र कर्तृसद्भावावेदकस्य प्राक्प्रतिपादितत्वात् । किञ्च, अस्सर्यमाणकर्तृकत्वं वादिनः, प्रतिवादिनः, सर्वस्य वा १५ स्यात् ? वादिनश्चेत्; तदनैकान्तिकं “सा ते भवतु सुप्रीता" [ ] इत्यादौ विद्यमानकर्तृकेप्यस्य सम्भवात् । प्रतिवादिनश्चेत् ; तदसिद्धम् ; तंत्र हि प्रतिवादी स्मरत्येक कर्तारम् । एतेन सर्वस्यास्मरणं प्रत्याख्यातम् । सर्वात्मज्ञानविज्ञानरहितो वा कथं सर्वस्य तंत्र कर्बऽस्मरणमवैति? २० किञ्च, अतः स्वातन्येणापौरुषेयत्वं साध्येत, पौरुषेयत्वसाधनमनुमानं वा वाध्येत? प्राच्यविकल्पे खातव्येणापौरुषेयत्वस्यादः साधनम् , प्रसङ्गो वो? स्वातन्त्र्यपक्षे नाऽतोऽपौरुषेयत्वसिद्धिः पदवाक्यत्वतः पौरुषेयत्वप्रसिद्धः । अतो न ज्ञायते किमस्मर्यमाणकर्तृत्वादपौरुषेयो वेदः पवाक्यात्मकत्वात्पौरुषेयो वा? न २५ च सन्देहहेतोः प्रामाण्यम् । ननु न प्रकृतोद्धेतोः सन्देहोत्पत्तिर्येनास्याऽप्रामाण्यम् किन्तु प्रतिहेतुतः, तस्य चैतस्मिन्सत्यऽप्रवृत्तेः कथं संशयोत्पत्तिः? १ अभिप्रेतार्थप्रतिपादकवाक्य । २ भवतीत्यादि । ३ उच्चारण ! ४ अस्य शब्दस्थायमर्थ इति । ५ सङ्केतानाम् । ६ तस्मात् । ७ असर्वशानाम् । ८ वेदे। ९ वेदे। १० प्रसन्ना । ११ वेदे। १२ वेदे। १३ अस्मर्यमाणकर्तृकत्वात् । १४ अमर्यमाणकतैकत्वादिति । १५ साधनम् । १६ अमर्यमाणकर्तृकत्वात् । १७ कारणस्य । १८ अस्मर्यमाणकर्तृत्वस्य । १९ अपौरुषेयत्वलक्षणस्वसाध्यसाधकस्य । २० अमर्यमाणकर्तृत्वादिति । २१ विप्रतिकूलहेतुतः। .
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy