________________
३९४
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० अथ यद्यनुपलेम्भपूर्वकममर्थलाणकर्तृकत्वं हेतुत्वेनोच्यत: तदोक्तप्रकारेणाऽसिद्धानैकान्तिकत्व्वे स्याताम् , तेदभावपूर्वके तु तस्मिंस्तयोरनवकाशः; न; अत्र कत्रऽभावग्राहकस्य प्रमाणान्तरस्यैवाऽसम्भवात् । असादेवानुमानात्तद्भावसिद्धावन्योन्या५श्रयः-अंतो ह्यऽनुमानात्तभावसिद्धौ तत्पूर्वकमस्मर्यमाणकर्तृकत्वं सिद्ध्यति, तत्सिद्धौ चातोऽनुमानात्तदभावसिद्धिरिति ।
ननु वेदे कर्तृसद्भावाभ्युपगमे तत्कर्तुः पुरुषस्यावश्यं तदनुष्ठानसमये अनुष्टातॄणामनिश्चितप्रामाण्यानां तत्प्रामाण्यप्रसिद्धये सरणं स्यात् । ते ह्यदृष्टंफलेषु कर्मखेवं निःसंशयाः प्रवर्तन्ते । यदि १० तेषां तद्विषयः सत्यत्वनिश्चयः, सोपि तदुपदेष्टुः स्मरणात्स्यात् ।
यथा पित्रादिप्रामाण्यवशात्स्वयमदृष्टफलेष्वपि कर्मसु तदुपदेशात्प्रवर्तन्ते 'पित्रादिभिरेतदुपदिष्टं तेनानुष्ठीयते', एवं वैदिकेष्वपि कर्मखनुष्ठीयमानेषु कर्तुः स्मरणं स्यात् । न चाभियुक्तानामपि वेदार्थानुष्ठातॄणां त्रैवर्णिकानां तत्सरणमस्ति । तथा चैवं प्रयोगः१५ कर्तुः स्मरणयोग्यत्वे सत्यस्मर्यमाणकर्तृकत्वादपौरुषेयो वेदः।
तदप्यसम्बद्धम् । आगमान्तरेऽप्यस्य हेतोः सद्भावबाधकप्रमाणाऽसम्भवेन सद्भावसम्भवतः सन्दिग्धविपक्षव्यावृत्तिकत्वेनानैकान्तिकत्वात्।
किञ्च, विपक्षविरुद्ध विशेषणं विपक्षाट्यावर्त्तमानं स्वविशेष्य२० मादाय निवत्त । न च पौरुषेयत्वेन सह कर्तुःस्मरणयोग्यत्वस्य
सहानवस्थानलक्षणः परस्परपरिहारस्थितिलक्षणो वा विरोधः सिद्धः। सिद्धौ वा तत एव साध्यप्रसिद्धेः 'अमर्यमाणकर्तृकत्वात्' इति विशेष्योपादानं व्यर्थम् ।
१ उक्तप्रकारेण हेतोरसिद्धत्वे प्रतिपादितेऽनुमानवलेन हेतुसिद्धिं करोति परः । २ अनुपलम्भेन हेतुना साधितं यदस्सर्यमाणकर्तृकत्वं साधनं तत्। ३ अनुपलम्भः स्वसम्बन्धी सर्वसम्बन्धी वा स्यात् ? पौरस्त्यपक्षेऽसिद्धत्वम् । पाश्चात्यपक्षेऽनैकान्तिकत्वम्। ४ वेदः अमर्यमाणकर्तृकः अनुपलभ्यमानकर्तृकत्वात् आकाशवत् इत्यनेनानुमानेन हेतुसिद्धिं विदधाति । ५ अनुपलम्भलक्षणस्य हेतोरुभयदोषदुष्टत्वाद्धत्वन्तरेण प्रकृतहेतुं साधयति । ६ वेदः अस्मयमाणकर्तृकः कत्रभावाव्योमवत् इत्यनेनानुमानेन साधिते । ७ अमर्यमाणकर्तृकत्वादेव। ८ असर्यमाणकर्तृकत्वात् । ९ अमर्यमाणकर्तृकत्वात् । १० कुत एतदित्याह । ११ अनिरीक्षितफलेषु । १२ यागेषु। १३ वक्ष्यमाणप्रकारेण । १४ कथं निःसंशयाः प्रवर्तन्ते। १५ कर्म। १६ कारणेन। १७ व्यापूतानाम् । १८ उक्तप्रकारेण । १९ वक्ष्यमाणरीत्या। २० पिटके। २१ पौरुषेयपिटके । २२ पौरुषेयत्वं विपक्षः। २३ विरोधस्य । २४ अपौरुषेयत्वमिति ।