________________
३८४
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० पूर्वोत्तराकारपरिहारवातिस्थितिलक्षणपरिणामशून्यस्य सर्वथा नित्यत्वे क्षणिकरो या शब्दस्य कृतकत्वाउपपत्तेर्वक्ष्यमाणत्वाद। किं दुनः कार्यलिङ्गस्योदाहरणमित्याह
अस्त्यत्र शरीरे बुद्धिाहारादेः ॥ ६६ ॥ ३ व्याहारो वचनम् । आदिशब्दाद्व्यापाराकारविशेषपरिग्रहः। लनु ताल्वाद्यन्वयव्यतिरेकानुविधायितया शब्दस्योपलम्भात्कथमात्मकार्यत्वं येनातस्तदस्तित्वसिद्धिः स्यात् ? न खल्वात्मनि विद्यमानेपि विवक्षाबंद्धपरिकरे कफादिदोषकण्ठादिव्यापाराभावे
वचनं प्रवर्तते; तदप्यसारम् ; शब्दोत्पत्तौ ताल्वादिसहायस्यै१० वात्मनो व्यापाराभ्युपगमात् । घटाद्युत्पत्तौ चक्रादिसहायस्य कुम्भकारादेापारवत्, कथमन्यथा घटादेरप्यात्मकार्यता? कार्यकार्यादेश्च कार्यहेतावेवान्तर्भावः। कारणलिङ्गं यथा
अस्त्यत्र छाया छत्रात् ॥ ६७ ।। १५ कारणकारणादेरचैवानुप्रवेशानार्थान्तरत्वम् ।
पूर्वचरलिङ्गं यथा
उदेष्यति शकटं कृत्तिकोदयात् ॥ ६८ ॥ पूर्वपूर्वचराद्यनेनैव सङ्ग्रहीतम् । उत्तरचरं लिङ्गं यथा
उदगाद्भरणिस्तत एव ॥ ६९ ॥ कृत्तिकोदयादेव । उत्तरोत्तरचरमेतेनैव सङ्ग्रह्यते । सहचरं लिङ्गं यथा
अस्त्यत्र मातुलिङ्गे रूपं रसात् ॥ ७० ॥
संयोगिने एकार्थसमवायिनैश्च साध्यसमकालस्यात्रैवान्तर्भावो २५ द्रष्टव्यः।
१ आत्मा । २ सुच्छायतादि। ३ सहित । ४ सहाय । ५ कण्ठादिव्यवहारभाव एव कारणम् । ६ जैनः। ७ तावाद्यन्वयव्यतिरेकानुविधायित्वेन ताल्वादेरेव कार्य शब्द इत्येवं यदि। ८ अभूदत्र शिवकः स्थासात् । ९ महोऽत्रत्यानां कण्ठाक्षेपविक्षेपकारी धूमवदग्निमत्त्वात् । कण्ठादिविक्षे रस्य कारणं धूमस्तस्य च कारणं वह्निरिति । १० उदाहियते । ११ आत्मनोत्राऽस्तित्वं विशिष्टशरीरात् । अत्रापि नैयायिकमतानुसरणे कार्यहेतोरेव धूमादेरियं संशा। १२ नैयायिकमतानुसरणे सहचरहेतोरियं संज्ञा । १३ हेतोः।