________________
सू० ३१६४-६५] सहचरहेतुसमर्थनम् योमरणजाग्रबोधयोरपि नारिष्टोद्वोधौ प्रति हेतुत्वम् , येनाभ्यामनैकान्तिको हेतुः स्यादिति स्थितम् । यथा च पूर्वोत्तरचारिणोन तादात्म्यं तदुत्पत्तिर्वा तथासहचारिणोरपि परस्परपरिहारेणावस्थानालहोत्पादोच ।। ६४
५ ययोः परस्परपरिहारेणावस्थानं न तयोस्तादात्म्यम् स्था घटपटयोः, परस्परपरिहारेणावस्थानं च सहचारिणोरिति ! एककालत्वाच्चानयोन तदुत्पत्तिः। ययोरेककालत्वं न तयोस्तदुत्पत्तिः यथा सव्येतरगोविषाणयोः, एककालत्वं च सहचारिणोरिति ।
न चाखाद्यमानाद्रसात्सामन्यनुमानं ततो रूपानुमानेमनुमिता-१० नुमानादित्यभिधातव्यम् । तथा व्यवहाराभावात् । न हि आस्वाद्यमानाद्रसाद् व्यवहारी सामग्रीमनुमिनोति, रससमसमयस्य रूपस्थानेनानुमानात् । व्यवहारेण च प्रमाणचिन्ता भवता प्रतन्यते । "प्रामाण्यं व्यवहारेण" [प्रमाणवा० २२५] इत्यभिधानात् । सामग्रीतो रूपानुमाने च कारणात्कार्यानुमानप्रसङ्गाल्लिङ्गसंख्या १५ व्याघातः स्यात् ।
तोनेव व्याप्यादिहेतून वालव्युत्पत्त्यर्थमुदाहरणद्वारेण स्फुटयति । तत्र व्याप्यो हेतुर्यथापरिणामी शब्दः, कृतकत्वात्, य एवं स एवं दृष्टः यथा घटः, कृतकश्वायम् , तस्मापरिणामीति । २० यस्तु न परिणामी स न कृतकः यथा बन्ध्यास्तनन्धयः, कृतकश्चायम् , तस्मात् परिणामीति॥६५॥
'दृष्टान्तो द्वेधा अन्वयव्यतिरेकभेदात्' इत्युक्तम् । तत्रान्वयदृष्टान्तं प्रतिपाद्य व्यतिरेकदृष्टान्तं प्रतिपाद्यन्नाह-यस्तु न परिणामी स न कृतको दृष्टः यथा वन्ध्यास्तनन्धयः, कृतकश्चा-२५ यम्, तस्मात्परिणामीति । कृतकत्वं हि परिणामित्वेन व्याप्तम् ।
१ साध्यसाधनयोः। २ तादात्म्यतदुत्पत्त्योरभावः। ३ तादात्म्यं सहचारिणोनास्ति परस्परपरिहारेणावस्थानात् । ४ कृनम् । ५ अनुमितायाः सामग्याः सकाशादनुमानं रूपस्य । ६ परेण भवता । ७ सौगतेन। ८ त्रि। ९ उद्दिष्टानेव । १० अपेक्षितपरव्यापारः कृतक उच्यते ।