________________
. .
३८२
प्रमेशकमलमार्तण्डे [३. परोक्षपरि० भिन्नयोः कार्यकारणभावामान्यः सम्बन्धः, स्वयं लौगतैस्तथीऽभ्युपर माम् । तत्र चारिष्टादिना तकियेता, तेन वारिष्टादिकम् ? प्रथमपक्षेऽरिष्टादेरेव तन्निप्पत्तेमरणादिकमकिञ्चित्करमेव कचिदप्यनुपयोगात् । तेनारिष्टादिकरणे पूर्व निष्पन्नस्य पश्चादुपजाय५मानेन तेन किं क्रियत इत्युक्तम् । अथाऽनिष्पन्न किञ्चिदस्ति; तत्रापि पूर्ववचर्चानवस्था च ।
ननु यद्यत्र कार्यकारणभावो न स्यात्कथं तर्हि एकदर्शनादन्या. नुमानमिति चेत् ; 'अविनाभावात्' इति ब्रूमः । तादात्म्यतदुत्पत्तिलक्षणप्रतिवन्धेप्याविनामावादेव गमकत्वम् । तदभावे १० वक्तृत्वतत्पुत्रत्वादेस्तादात्म्यत दुत्पत्तिप्रतिबन्धे सत्यपि असर्वज्ञत्वे
श्यामत्वे च साध्ये गमकत्वाप्रतीतेः । तदभावेपि चाविनाभावप्रसादात् कृत्तिकोदय चन्द्रोदय-उद्गृहीताण्डकपिपीलिकोत्सर्पणएकाम्रफलोपलभ्यमानमधुररसस्वरूपाणां हेतूनां यथाक्रमं शक
टोदय-समानसमयसमुद्रवृद्धि-भाविवृष्टि-समसमयासिन्दूरारुणं१५ रूपखभावेषु साध्येषु गमकत्वप्रतीतेश्च । तदुक्तम्
"कार्यकारणभावादिसम्बन्धानां द्वयी गतिः। नियमानियमाभ्यां स्यादनियमादनङ्गता ॥१॥ सर्वेप्यनियमा ह्येते नानुमोत्पत्तिकारणम् ।
नियत्केिवलादेव न किञ्चिन्नानुमीयते ॥ २॥"[ ] २० ततः शरीरनिर्वतकाऽदृष्टादिकारणकलापादरिष्टकरतलरेखादयो निष्पन्नाः भाविनो मरणराज्यादेरनुमापका इति प्रति. पत्तव्यम्।
जाग्रद्वोधस्तु प्रबोधबोधस्य हेतुरित्येतत्प्रांगेव प्रतिविहितम् , स्वापाद्यवस्थायामपि ज्ञानस्य प्रसाधितत्वात् । ततो भाव्यतीत
--- --- .... . . . ----------------------------------- . १ निष्पन्नानिष्पन्नयोः । २ संयोगादिः । ३ अन्यसम्बन्धाभावप्रकारेण । ४ अनिपन्नम् । ५ अनिष्पन्नरूपेण । ६ कायें। ७ अरिष्टादि । ८ चटन। ९ अन्धकारावस्थायामास्वाद्यमानमाम्रफलं सिन्दूरारुणरूपयुक्तं भवति मधुररसोपेतत्वादुपभुक्ताभ्रफलवत् । १० आदिना तादात्म्यसंयोगादि । ११ प्रकारः। १२ अविनाभावाभावात् । १३ अनुमानं प्रति । १४ अनियमाद नगतेत्येतदेवाचष्टे सर्वे इत्यादिना। १५ कार्यकारणतादात्म्यादयः। १६ वक्तृत्वनत्पुत्रत्वादीनां हेत्वाभासानां येऽविनाभावरहिताः कार्यकारणादिसम्बन्धास्ते सर्वे अनुमानोत्पत्तिकारणं न भवन्ति । १७ तहनुमानोत्पत्तिं प्रति किं कारणमित्युक्ते सत्याह । १८ अविनाभावात् । १९ साध्यम् । २० आदिनात्मादि । २१ योगेन । २२ मोक्षविचारावसरे ।
"कायकारण