________________
सू० ३१६१-६३ ] भाव्यतीतयोः कारणत्वनिरासः ३८१ न वर्तमानस्य रूपस्य वातीतस्य वा प्रतीतिः। इत्ययुक्तमुक्तम्-"अ. तीतैककालौनां गतिर्नाऽनागतानाम्" [प्रमाणवा० खवृ० १११३] इति । अथान्यतरकार्यमला; ताऽन्यतरस्सवातः प्रतीतिर्भवेत् !
ननु स्वसत्तासमवायात्पूर्वमसन्तोदि मरणादयोऽरिष्टादिकार्यकारिणो दृष्टास्ततोऽनकान्तो हेतोरित्याशय भाव्यतीतयोरित्या-५ दिना प्रतिविधत्ते
भाव्यतीतयोमरणजाप्रदोषयोरशि
नारिष्टोद्बोधौ प्रति हेतुत्वम् ॥ ६२ ३३ तंद्यापाराश्रितं हि तद्भावभावित्वम् ॥ ६३॥ न च पूर्वमेवोत्पन्नमरिष्टं करतलरेखादिकं वा भाबिनो मरणस्य १० राज्यादेापारमपेक्षते, स्वयमुत्पन्नस्यापरापेक्षायोगात् । अथास्योत्पत्तिमरणादिनैव क्रियते; न; असंतः खरविषाणवत्कर्तृत्वायोगात् । कार्यकालेऽसत्त्वेपि स्वकाले सत्त्वाददोषश्चेत्: ननु किं भाविनो मरणादेः खकाले पूर्व सत्त्वम् , अरिष्टादेर्वा ! भाविनः पूर्व सत्त्वे ततः पश्चादरिष्टादिकमुपजायमानं पाश्चात्यं न पूर्वन् । १५ इत्ययुक्तमुक्तम्-'पूर्वमसन्तोपि मरणादयोऽरिष्टादिकार्यकारिणः इति । अथान्यभाविमरणाद्यपेक्षयारिष्टादिकं पूर्वमुच्यते; ननु तदपि सत् स्वकाले यदि ततः प्रागेव स्यात् । तर्हि पाश्चात्यमरिष्यादिकं कथं ततः पूर्वमुच्यते ? अन्यभाविमरणाद्यपेक्षया चेदनवस्था । __ अथ पूर्वमरिष्टादिकं स्वकाले पश्चाद्भाविमरणादिकं स्वकाल-२० नियतं भवेत्। तर्हि निष्पन्नस्य निराकाङ्क्षस्यास्य पश्चादुपजायमानेन मरणादिना कथं करणं कृतस्य करणायोगात् ? अन्यथा न क्वचित्कार्ये कस्यचित्कारणस्य कदाचिदुपरमः स्यात् , पुनःपुनस्तस्यैव करणात् । अथ निष्पन्नस्याप्यनिष्पन्नं किश्चिद्रूपमस्ति तत्करणात्तत्तत्कारणं कल्प्यते, तत्ततो यद्यभिन्नम्। तदेव तत्तस्य च २५ न करणमित्युक्तम् । भिन्नं चेत् । तदेव तेन क्रियते नारिष्टादिकमित्यायातम् । तत्सम्बन्धिनस्तस्य करणात्तदपि कृतमिति चेत्:
. १ अतीतश्चैकश्च अतीतैको कालौ येषां रूपादीनाम् । २ साध्यार्थानाम् । ३ शकटोदयभरण्युदययोर्मध्ये। ४ कारणस्य । ५ आदिना राज्यादयश्च । ६ उत्पातहस्तरेखादि । ७ अरिष्टादिना। ८ कारणस्य । ९ कारणस्य। १० इति चेत् । ११ अरिष्टादिकाले । १२ मरणादेः सकाशात्पूर्व सत्वम् । १३ सकाशात् । १४ द्वितीयविकल्पोयम् । १५ अरिष्टादेः । १६ परेण ।