SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ सू० ३।६६-७७] हेतुप्रकाराः ३८५ अथाविरुद्धोपलब्धिमुदाहृत्येदानी विरुद्धोपलब्धिमुदाहर्नु विरुद्धत्याद्याहविरुद्धतदुपलब्धिः प्रतिषेधे तथेति ॥ ७१ ॥ प्रतिषेध्येन यद्विरुद्धं तत्सम्बन्धिनां देपां व्याप्यादीनामुपलब्धिः प्रतिषेधे साध्ये तथाऽविरुद्धोपलब्धिवत् षट्प्रकारा। ५ तानेव पटू प्रकारान् यथेत्यादिना प्रदर्शयति(यथा) नास्त्यत्र शीतस्पर्श औष्ण्यात् ॥ ७२ ॥ यथेत्युदाहरणप्रदर्शने । औषण्यं हि व्याप्यमग्नेः। स च विरुद्धः शीतस्पर्शेन प्रतिषेध्येनेति । विरुद्धकार्य लिङ्गं यथा नास्त्यत्र शीतस्पर्शो धूमात् ॥७३॥ विरुद्धकारणं लिङ्गं यथानास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् ॥७॥ सुखेन हि प्रतिषेध्येन विरुद्धं दुःखम् । तस्य कारणं हृदयशल्यम् । तत्कुतश्चित्तदुपदेशादेः सिध्यत्सुखं प्रतिषेधतीति । १५ विरुद्धपूर्वचरं यथा नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ॥ ७५॥ शकटोदयविरुद्धो ह्यश्चिन्युदयस्तत्पूर्वचरो रेवत्युदय इति । विरुद्धोत्तरचरं यथानोदगाद्भरणिर्मुहर्त्तात्पूर्वं पुष्योदयात् ॥ ७६ ॥ भरण्युदयविरुद्धो हि पुनर्वसूदयस्तदुत्तरचरः पुष्योदय इति । विरुद्धसहचरं यथानास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागात् ॥७७॥ परभागाभावेन हि विरुद्धस्तत्सद्भावस्तत्सहचरोऽर्वाग्भाग२५ इति। १ साध्येन। २ प्रतिषेध्येन । प्र०क० मा० ३३
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy