________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरि०
तदनुमान द्वेधा ॥ ९२ ३३ इत्याह। कुतस्तद् द्वेधेति चेत् ?
___स्वार्थपरार्थभेदात् ॥ ५३ ॥ ५ तत्र
खार्थमुक्तलक्षणम् ॥ ५४ ॥ वार्थमनुमानं साधनात्साध्यविज्ञानमित्युक्तलक्षणम् । किं पुनः परार्थानुमानमित्याह परार्थमित्यादि
परार्थं तु तदर्थपरामर्शिवचनाजातम् ॥ ५५॥ १० तस्य स्वार्थानुमानस्यार्थः साध्यसाधने तत्परामर्शिवचनाजातं यत्साध्यविज्ञानं तत्परार्थानुमानम् ।
ननु वचनात्मकं परार्थानुमानं प्रसिद्धम् , तच्चोक्तप्रकारं साध्यविज्ञानं परार्थानुमानमिति वर्णयता कथं सगृहीतमित्याह
तद्वचनमपि तद्धेतुत्वात् ॥ ५६ ॥ १५ तद्वचनमपि तदर्थपरामार्शवचनमपि तद्धेतुत्वात् ज्ञानलक्षणमुख्यानुमानहेतुत्वादुपचारेण परार्थानुमानमुच्यते । उपचारनिमित्तं चास्य प्रतिपादकप्रतिपाद्यापेक्षयानुमानकार्यकारणत्वम् । तत्प्रतिपादकज्ञानलक्षणानुमान(न)हेतुः कारणं यस्य तद्वचनस्य,
तस्य वा प्रतिपाद्यज्ञानलक्षणानुमानस्य हेतुः कारणम् , तद्भाव२० स्तद्धेतुत्वम् , तस्मादिति । मुख्यरूपतया तु ज्ञानमेव प्रमाण
परनिरपेक्षतयाऽर्थप्रकाशकत्वादिति प्राक्प्रतिपादितम् । __ यथा चानुमानं द्विप्रकारं तथा हेतुरपि द्विप्रकारो भवतीति दर्शनार्थं स हेतुइँधेत्याह
स हेतुर्द्वधा उपलब्ध्यनुपलब्धिभेदात् इति ॥५७॥ २५ योऽविनाभावलक्षणलक्षितो हेतुः प्राक्प्रतिपादितः स द्वेधा भवति उपलब्ध्यनुपलब्धिभेदात् ।
तत्रोपलब्धिर्विधिसाधिकैवानुपलब्धिश्च प्रतिषेधसाधिकैवेत्यनयोर्विषयनियममुपलब्धिरित्यादिना विघटयति. १ अनेन प्रकारेण। २ तद्योति । ३ परार्थानुमानमुच्यते इति सम्बन्धः । ४ हेतोः। ५ अनेन प्रकारेण ।