________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तत्परमभिधीयमानं साध्यधर्मिणि साध्य
साधने सन्देहयति ॥ ४२ ॥ कुतोऽन्यथोपनयनिगमने ? ॥ ४३ ॥ परं केवलमभिधीयमानं साध्यसाधने साध्यधर्मिणि सन्देख५यति सन्देहवती करोति । कुतोऽन्यथोपनयनिगमने ?
मा भूदृष्टान्तस्यानुमानं प्रत्यङ्गत्वमुपनय निगमनयोस्तु स्यादित्याशङ्कापनोदार्थमाह. न च ते तदङ्गे साध्यधर्मिणि हेतुसाध्ययो
वचनादेवाऽसंशयात् ॥ ४४॥ १० न च ते तदङ्गे साध्यधर्मिणि हेतुसाध्ययोर्वचनादेव हेत.
साध्यप्रतिपत्तौ संशयाभावात् । तथापि दृष्टान्तोदेरनुमानावयवत्वे हेतुरूपत्वे वा
समर्थनं वा वरं हेतुरूपमनुमानावयवो
वास्तु साध्ये तदुपयोगात् ॥ ४५ ॥ १५ समर्थनमेव वरं हेतुरूपमनुमानावयवो वास्तु साध्ये तस्यो
पयोगात् । समर्थनं हि नाम हेतोरसिद्धत्वादिदोषं निराकृत्य स्वसाध्येनाऽविनाभावसाधनम् । साध्यं प्रति हेतोर्गमकत्वे च तस्यैवोपयोगो नान्यस्येति ।
ननु व्युत्पन्नप्रज्ञानां साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवा२०संशयादर्थप्रतिपत्तेदृष्टान्तादिवचनमनर्थकमस्तु । बालानां त्वव्यु. त्पन्नप्रज्ञानां व्युत्पत्त्यर्थ तन्नानर्थकमित्याहबालव्युत्पत्त्यर्थं तत्रयोपगमे शास्त्र एवासौ
__न वादेऽनुपयोगात् ॥ ४६॥ वालव्युत्पत्त्यर्थ तन्त्रयोपगमे दृष्टान्तोपनय निगमनत्रयाभ्युप
१ यदि सन्देहवती न करोति । २ उपनयनिगमनादेश्च । ३ सपक्षे दृष्टान्ते सत्त्वमुपनयश्च हेतुस्वरूपम् । कुतः ? त्रिरूपो हेतुर्यत इति सौगतः। ४ हेतुलक्षणं कीदृशम् ? दृष्टान्तोपनयनिगमनलक्षगविरूपत्वप्रदर्शनस्वरूपम्। ५ हे तुरूपोस्तु । कथम् ? हेतोः समर्थनं हेतुरेवेत्यनेन प्रकारेण। ६ विपक्षे साकल्येन बाधकप्रमाण• प्रदर्शनं हेतुसमर्थनम् । ७ एतदेव ।