SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ सू० ३१३७-४१] उदाहरणस्य अवयत्वनिरासः ३७५ न हि तत् साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव साध्याविनाभावनियमैकलक्षणस्य व्यापारात् । द्वितीयविकल्पोप्यसम्भाव्यःतदविनाभावनिश्चयार्थ वा विपक्षे वाधकादेव तसिद्धेः ।। ३९ ॥ न हे हेतोस्तेन साध्येनाविनामावस्य निश्चयाचे या तदुपादानं ५ युक्तम् : विपक्षे बांधकादेव तसिद्धः । न हि सपक्ष सत्वमात्राद्धेतोयाप्तिः सिध्यति, ‘स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवत् इत्यत्र तदाभासेपि तत्सम्भवात् । ननु साकल्येन साध्य निवृत्ती साधन निवृत्तरत्रासम्भवात्परत्र गोरेपि तत्पुत्रे तत्पुत्रत्वस्य भावान्न व्याप्तिः; तर्हि साकल्येन साध्यनिवृत्ती साधननिवृत्तिनिश्चयरूपा-१० द्वाधकादेव व्याप्तिप्रसिद्धरलं दृष्टान्तकल्पनया। व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिः तत्रापि तद्विप्रतिपत्तावनवस्थानं स्यात् __दृष्टान्तान्तरापेक्षणात् ॥ ४० ॥ किञ्च, वादिप्रतिवादिनोर्यत्र बुद्धिसाम्यं स दृष्टान्तो भवति १५ प्रतिनियतव्यक्तिरूपः, यथाऽग्नौ साध्ये महानसादिः। व्यक्तिरूपं च निदर्शनं कथं तदविनाभावनिश्चयार्थं स्यात् ? प्रतिनियतव्यक्ती तनिश्चयस्य कर्तुमशक्तेः । अनियतदेशकालाकाराधारतया सामान्येन तु व्याप्तिः । कथमन्यथान्यत्र साधनं साध्यं साधयेत् ? तत्रापि दृष्टान्तेपि तस्यां व्याप्ती विप्रतिपत्तो सत्यां दृष्टान्तान्तरा-२० न्वेषणेऽनवस्थानं स्यात् । नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयो गादेव तत्स्मृतेः ॥ ४१॥ नापि व्याप्तिस्मरणार्थ दृष्टान्तोपादानं तथाविधस्य प्रतिपन्नाविनाभावस्य हेतोः प्रयोगादेव तत्स्मृतेः । एवं चाप्रयोजनं२५ तदुदाहरणम्। १ ऊहात् । २ अविनाभावः। ३ ऊहात्। ४ पर्वते। ५ साध्यसाधनयोः । ६ प्रतिनियतव्यक्तौ तन्निश्चयस्य कर्तुमशक्तरित्येतद्भावयति । ७ सामान्येन व्याप्तिन स्यायदि। ८ दृष्टान्तादन्यत्र ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy