________________
प्रमेयकमलमार्त्तण्डे
[ ३. परोक्षपरि०
प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता ॥ ३० ॥ अग्निमानयं देशः परिणामी शब्द इति यथा ३१
३७२
प्रमाणं प्रत्यक्षादिकम् उभयं प्रमाणविकल्पौ, ताभ्यां सिद्धे पुनर्धर्मिणि साध्यधर्मेण विशिष्टता साध्या । यथाग्निमानयं देशः, ५. परिणामी शब्द इति । देशो हि धर्मित्वेनोपात्तोऽध्यक्षप्रमाणत एव प्रसिद्धः, शब्दस्तूभीभ्याम् । न खलु देशकालान्तरिते ध्वनौ प्रत्यक्षं प्रवर्त्तते, श्रूयमाणमात्र एवास्य प्रवृत्तिप्रतीतेः । विकल्पस्य त्वऽनियतविषयतया तत्र प्रवृत्तिरविरुद्धैव ।
२०
ननु चैवं देशस्याप्यग्निमत्त्वे साध्ये कथं प्रत्यक्षसिद्धता ? तत्र १० हि दृश्यमानभागस्याग्निमत्त्वसाधने प्रत्यक्षवाधनं साधनवैफल्यं वाँ, तत्र साध्योपलब्धेः । अदृश्यमानभागस्य तु तत्साधने कुतस्तत्प्रत्यक्षतेति ? तदप्यसमीचीनम्; अवयविद्रव्यापेक्षया पर्वतादेः सांव्यवहारिकप्रत्यक्षप्रसिद्धताभिधानात् । अतिसूक्ष्मेक्षकापर्यालोचने न किञ्चित्प्रत्यक्षं स्यात्, वहिरन्तर्वाऽस्मदादिप्रत्यक्षस्या१५ शेषविशेषतोऽर्थ साक्षात्करणेऽसमर्थत्वात्, योगिप्रत्यक्षस्यैव तत्र सामर्थ्यात् ।
3
ननु प्रयोगकालवद्व्याप्तिकालेपि तद्विशिष्टस्य धर्मिण एव साध्यव्यपदेशः कुतो न स्यादित्याशङ्कयाह
व्याप्तौ तु साध्यं धर्म एव ॥ ३२ ॥
न पुनस्तद्वान् ।
अन्यथा तदुघटनात् ॥ ३३ ॥
अनेन हेतोरन्वयासिद्धेः । न खलु यत्र यत्र कृतकत्वादिकं प्रतीयते तत्र तत्रानित्यत्वादिविशिष्टशब्दाद्यन्वयोस्ति ।
'ननु प्रसिद्ध धर्मीत्यादि पक्षलक्षणप्रणयनमयुक्तम्; अस्ति सर्वज्ञ २५ इत्याद्यनुमानप्रयोगे पक्षप्रयोगस्यैवासम्भवात् अर्थादापन्नत्वात्तस्य । अर्थादापन्नस्याप्यभिधाने पुनरुक्तत्वप्रसङ्गः- “अर्थादापन्नस्य स्वशब्देनाभिधानं पुनरुक्तम्" [ न्यायसू० ५/२/१५ ] इत्यभिधानात् । तत्प्रयोगेपि च हेत्वादिवचनमन्तरेण साध्याप्रसिद्धे
१ प्रसिद्ध: । २ शब्दस्य केवलप्रत्यक्षतः सिद्ध्यभावप्रकारेण । ३ स्यात् । ४ नावयव ( प्रदेश ) द्रव्यापेक्षया । ५ असर्वज्ञप्रत्यक्ष | ६ विचार । ७ साध्यधर्म । ८ बौद्धः । ९ अर्थादापन्नस्य ।