SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ३७३ सू० ३१३०-३६] प्रतिज्ञाप्रयोगसमर्थनम् स्तद्वचनादेव च तत्प्रसिद्धर्व्यर्थः पक्षप्रयोगः' इत्याशङ्ख्य साध्यधर्माधारेत्यादिना प्रतिविधत्तेसाध्यधर्माधारसन्देहायनोदाय गम्यमानस्यापि पक्षस्य वचनम् ॥ ३४॥ साध्यधमाऽस्तित्वादिः, नख्याधार आश्रयः यत्राला साध्यधर्मो ५ वर्तते, तत्र सन्देहः-किमसौ साध्यधोऽस्तित्वादिः सर्व वर्तते सुखादी वेति, तस्यापनोदाय गम्यमानस्यापि पक्षस्य वचनम् । साध्यर्मिणि साधनधर्माववोधनाय पक्षधर्मोपसंहारवत् ॥ ३५॥ तस्याऽवचनं साध्यसिद्धिप्रतिवन्धकत्वात् , प्रयोजनाभावाद्वा?:० तत्र प्रथमपक्षोऽयुक्तः; वादिना साध्याविनाभावनियमकलक्षणेन हेतुना स्वपक्षसिद्धौ साधयितुं प्रस्तुतायां प्रतिज्ञाप्रयोगस्य तत्प्रतिवन्धकत्वाभावात् ततः प्रतिपक्षासिद्धेः । द्वितीयपक्षोप्ययुक्तः, तत्प्रयोगे प्रतिपाद्यप्रतिपत्तिविशेषस्य प्रयोजनस्य सद्भावात्, पक्षाऽप्रयोगे तु केपाञ्चिन्मन्दमतीनां प्रकृतार्थाप्रतिपत्तेः ११५ ये तु तत्प्रयोगमन्तरेणापि प्रकृतार्थ प्रतिपद्यन्ते तान्प्रति तदप्रयोगोऽभीष्ट एव । “प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः”[ ] इत्यभिधानात् । ततो युक्तो गम्यमानस्याप्यस्य प्रयोगः, कथमन्यथा शास्त्रादावपि प्रतिज्ञाप्रयोगः स्यात् ? न हि शास्त्रे नियतकथायां प्रतिज्ञा नाभिधीयते-'अग्निरत्र धूमात् , वृक्षोयं शिंशपा-२० न्वात्' इत्याद्यभिधानानां तत्रोपलम्भात् । परानुग्रहप्रवृत्तानां शास्त्रकाराणां प्रतिपाद्याववोधनाधीनधियां शास्त्रादौ प्रतिज्ञाप्रयोगो युक्तिमानेवोपयोगित्वात्तस्येत्यभिधाने वादेपि सोऽस्तु तत्रापि तेषां तादृशत्वात् । __ अमुमेवार्थ को वेत्यादिना परोपहसनव्याजेन समर्थयते- २५ को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति ? ॥ ३६॥ को वा प्रामाणिकः कार्यखभावानुपलम्भभेदेन पक्षधर्मत्वादि १ व्याप्तिप्रदर्शनद्वारेण । २ सुनिश्चिताऽसम्भवद्वाधकप्रमाणश्चायमिति साधनस्य पक्षधर्मत्वेन प्रदर्शनमुपसंहारस्तद्वत् । ३ अस्ति सर्वच इति । ४ गम्यमानस्य पक्षस्य प्रयोगो न स्याद्यदि । ५ सुगोष्ठ्याम् । ६ धर्मकीादीनाम् । ७ सौगतेन । ८ मिषेण। प्र. क. मा० ३२
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy