________________
M
सू० ३।२५-२९] धर्मिस्वरूपविचारः
३७२ साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी ॥ २५ !! क्वचिद्व्याप्तिकाले साध्यं धर्मो नित्यत्वादिस्तेनैव हेतोप्तिसम्भवात् । प्रयोगकाले तु तेन साध्यधर्मण विशिष्टो धर्मी साध्यमभिधीयते, प्रतिनियतसाध्यधर्मविशेषणविशिष्टतया हि धर्मिणः साधयितुनिष्टत्वात् साध्यव्यपदेशाविरोधः ! अस्यैव पर्यायमाह
पक्ष इति यावत् ॥ २६ ॥ ननु च कथं धर्मी पक्षो धर्मधर्मिसमुदायस्य तत्वात् : तन्न; साध्यधर्मविशेषणविशिष्टतया हि धर्मिणः साधयितुमिष्टस्य पैक्षाभिधाने दोपाभावात् । स च पक्षत्वेनाभिप्रेतः
प्रसिद्धो धर्मी ॥ २७॥ तत्प्रसिद्धिश्च क्वचिद्धिकल्पतः कचित्प्रत्यक्षादितः क्वचिचोभयत इति प्रदर्शनार्थम्-'प्रलक्षतिद्धत्यैव धर्मित्वन्' इत्येकान्तानिराकरणार्थ च विकल्पलिद्ध इत्याद्याहविकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये ॥ २८॥ अस्ति सर्वज्ञः नास्ति खरविषाणमिति ॥ २९ ॥ विकल्पेन सिद्ध तल्लिन्धमिदि सत्तेतरे साध्ये हेतुसामर्थ्यतः। यथा अस्ति लर्वज्ञः सुनिश्चितासम्भवद्वाधकप्रमाणत्वात्, नास्ति खरविषाणं तद्विपर्ययादिति । न खलु सर्वशखरविषाणयोः सद-२० सत्तायां साध्यायां विकल्पादन्यतः सिद्धिरस्ति; तत्रेन्द्रियव्यापाराभावात्।
ननु चेन्द्रियप्रतिपन्न एवार्थे मनोविकल्पस्य प्रवृत्तिप्रतीतेः कथं तत्रेन्द्रियव्यापाराभावे विकल्पस्यापि प्रवृत्तिः, इत्यप्यपेशलम्; धर्माधर्मादौ तत्प्रवृत्त्यभावानुषङ्गात् । आगमसामर्थ्यप्रभवत्वेना-२५ स्यात्र प्रवृत्तौ प्रकृतेप्यतस्तत्प्रवृत्तिरस्तु विशेषाभावात् ।
१ शब्दस्य । २ इति । ३ पक्ष इति । ४ अनुमाने । ५ निश्चितसंवादः संवादः ( अनिश्चितसंवादासंवादः) शब्दप्रत्ययो विकल्पस्तेन। ६ असता। ७ इन्द्रियव्यापाराभावात् । ८ शम्दगम्यत्वाविशेषात् ।