SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ३७० प्रमेयकमलमार्कण्डे [३. परोक्षपरि० अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं माभूदितीष्टावाधितवचनम् ॥ २२ ॥ अनिष्टं हि सर्वथा नित्यत्वं शब्दे जैनस्य । अश्रावणवंत प्रत्यक्षवाधितम् । आदिशब्देनानुमानादिवाधितपक्षपरिग्रहः। ५ तत्रानुमानवाधितः यथा-नित्यः शेब्द इति । आगमवाधितः यथा-प्रेत्याऽसुखप्रदो धर्म इति । स्ववचनवाधितः यथा-माता मे बन्ध्येति । लोकवाधितः यथा-शुचि नरशिरःकपाल मिति । तयोरनिष्टाध्यक्षादिवाधितयोः साध्यत्वं मा भूदितीष्टावाधितवचनम्। १० ननु यथा शब्दे कथञ्चिदनित्यत्वं जैनस्येष्टं तथा सर्वथाऽनि. त्यत्वमाकाशगुणत्वं चान्यस्येति तदपि साध्यमनुषज्यते । न च वादिनो यदिष्टं तदेव साध्यमित्यभिधातव्यम् । सामान्याभिधायित्वेनेष्टस्यान्यत्रींप्यविशेषात् । इत्याशङ्कापनोदार्थमाह न चासिद्धवदिष्टं प्रतिवादिनः॥ २३ ॥ १५ विशेषणम् । न हि सर्व सर्वापेक्षया विशेषणं प्रतिनियतत्वाद्विशेषणविशेष्यभावस्य । तंत्रासिद्धमिति साध्यविशेषणं प्रतिवाद्यपेक्षया न पुनर्वाद्यपेक्षया, तस्यार्थखरूपप्रतिपादकत्वात् । न चाविज्ञातार्थस्वरूपः प्रतिपादको नामातिप्रसङ्गात् । प्रतिवादिनस्तु प्रतिपाद्यत्वात्तस्य चाविज्ञातार्थखरूपत्वाविरोधात् तदपेक्षयैवेदं २० विशेषणम् । इष्टमिति तु साध्यविशेषणं वाद्यपेक्षया, वादिनो हि यदिष्टं तदेव साध्यं न सर्वस्य । तदिष्टमप्यध्यक्षाद्यबाधितं साध्य भवतीति प्रतिपत्तव्यं तत्रैव साधनसामर्थ्यात् । तदेव समर्थयमानः प्रत्यायनाय हीत्याद्याह प्रत्यायनाय हीच्छा वक्तुरेव ॥ २४ ॥ २५ इच्छया खलु विषयीकृतमिष्टमुच्यते । वाभिप्रेतार्थप्रतिपादनाय चेच्छा वक्तुरेव । तस्य चोक्तप्रकारस्य साध्यस्य हेतोयातिप्रयोगकालापेक्षया साध्यमित्यादिना भेदं दर्शयति १ शब्दः अश्रावण इत्युक्ते । २ प्रत्यभिशायमानत्वादिति हेतुः । ३ कृतकत्वादिति हेतुना बाध्यः पक्षोऽत्र। ४ पुरुषाश्रितत्वादधर्मवत् । ५ पुरुषसंयोगेपि अगत्वात प्रसिद्धवन्ध्यावत् । ६ प्राण्यङ्गत्वाच्छमशुक्तिवत् । ७ साध्ययोः। ८ वैशेषिकस्य । ९ जैनस्य । १० प्रतिवादिन्यपि । ११ इष्टाऽसिद्धयोर्मध्ये। १२ सम्बन्धिनः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy