SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ सू० ३।१६-२१] अविनाभावादीनां लक्षणानि ३६९ सहक्रमभावनियमोऽविनाभावः॥ १६ ॥ सहभावनियमः क्रमभारनियमश्चाविनाभावः प्रतिपत्तव्यः। कयोः पुनः सहभावः कयोश्च क्रमभावो यन्नियमोऽविनाभायः स्थादित्याहसहचारिणोः व्याप्यव्यापकयोश्च सहभावः ॥१७॥ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रममावः ॥१८॥ सहचारिणो रूपरसादिलक्षणयोप्प्यव्यापकयोश्च शिंशपरत्ववृक्षत्वादिखभावयोः सहभावः प्रतिपत्तव्यः। पूर्वोत्तरचारिणोः कृतिकाशकटोदयादिस्वरूपयोः कार्यकारणयोश्चाग्निधूमादिखरूपयोः क्रमभाव इति । कुतोसौ ग्रोक्तप्रकारोऽविनाभावो निर्णीयते इत्याह तत्तिन्निर्णयः॥ १९ ॥ न पुनः प्रत्यक्षादेरित्युक्तं तर्कमानाण्यप्रसाधनप्रस्तावे। ननु साधनात्लाध्यविज्ञानमनुमानसिन्युक्तम् । तत्र किं साध्य मित्याह इष्टमवाधितमसिद्धं साध्यम् ॥ २०॥ संशयादिव्यवच्छेदेन हि प्रतिपन्नमर्थखरूपं सिद्धमुच्यते, तद्विपरीतमसिद्धम् । तच्चसन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम् ॥ २१ ॥ किमयं स्थाणुः पुरुषो वेति चलितप्रतिपत्तिविषयभूतो ह्यर्थः सन्दिग्धोभिधीयते । शुक्तिकाशकले रजताध्यवसायलक्षणविपर्यासगोचरस्तु विपर्यस्तः। गृहीतोऽगृहीतोपि वार्थो यथावद्निश्चितखरूपोऽव्युत्पन्नः । तथाभूतस्यैवार्थस्य साधने साधनसामर्थ्यात्, न पुनस्तद्विपरीतस्य तत्र तद्वैफल्यात् । २५ इष्टाऽवाधितविशेषणद्वयस्यानिष्टेत्यादिनी फलं दर्शयति १ ताद्विः (षष्ठीद्विवचनमित्यर्थः ) । ययोः । २ तस्य अविनाभावस्य । ३ साध्यत्वेनाभिप्रेतम् । ४ अर्थानाम् । ५ पूर्वम् । ६ सिद्धौ । ७ सूत्रेण ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy