________________
३६८
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० यदपि-पूर्ववत्पूर्व लिङ्गलिङ्गिलम्वन्धस्य केचिनिश्चयादन्यत्र प्रवर्त्तमानमनुमानम् । शेषवत्परिशेषानुमानम्, प्रसक्तप्रतिषेत्र परिशिष्टस्य प्रतिपत्तेः । सामान्यतो दृष्टं विशिष्टव्यक्तौ सम्वन्धा
ग्रहणात्सामांन्येन दृष्टम् , यथा गतिमानादित्यो देशादेशान्तर५प्राप्तेर्देवदत्तवदिति । तदप्येतेन प्रत्याख्यातम्, उक्तंप्रकाराणां प्रमाणतः प्रसिद्धाविनाभावानां प्रतिपादयिष्यमाणहेतुप्रपञ्चत्वेन स्याद्वादिनामेव सम्भवात् । . न चायं भेदो घटते । सर्व हि लिङ्गं पूर्ववदेव, परिशेषानुमान
स्थापि पूर्ववत्त्वप्रसिद्धः प्रसक्तप्रतिषेधस्य परिशिष्टप्रतिपत्त्यविना१० भूतस्य पूर्व क्वचिनिश्चितस्य विवादाध्यासितपरिशिष्टप्रतिपत्तौ
सोधनस्य प्रयोगात् । सामान्यतो दृष्टस्याऽपि पूर्ववत्त्वप्रतीते; क्वचिद्देशान्तरप्राप्तेर्गतिमत्त्वाविनाभाविन्या एव देवदत्तादौ प्रतिपत्तेः, अन्यथा तेदनुमानाप्रवृत्तेः। परिशेषानुमानमेव वा सर्वम्;
पूर्ववतोपि धूमात्पावकानुमानस्य प्रसक्ताऽपावकप्रतिषेधात्प्रवृ. १५त्तिघटनात्, तदप्रसक्तौ विवादानुपपत्तेरनुमानवैययं स्यात् ।
सामान्यतो दृष्टस्यापि देशान्तरप्राप्तेरादित्यगत्यनुमानस्य तदगतिमत्त्वस्य प्रसक्तस्य प्रतिषेधादेवोपपत्तेः । संकलं सामान्यतो दृष्टमेव वा; सर्वत्र सामान्येनैव लिङ्गलिङ्गिसम्बन्धस्य प्रतिपत्तेः, विशेषतस्तत्सम्बन्धस्य प्रतिपत्तुमशक्तेः । ततोनुमानं तत्प्रभेदं २० चेच्छताऽविनाभाव एवैकं हेतोः प्रधानं लक्षणं प्रतिपत्तव्यम् ।
ननु चास्तु प्रधानं लक्षणमविनाभावो हेतोः । तत्स्वरूपं तु निरूप्यतामप्रसिद्धस्वरूपस्य लक्षणत्वायोगादित्याशङ्ख्य सहक्रमेत्यादिना तत्स्वरूपं निरूपयति
१ लिङ्गलिङ्गिसम्वन्धः पूर्व निश्चीयमानत्वात् पूर्वः सोस्यानुमानस्यास्तीति पूर्ववत् । अग्निमान्पर्वतो धूमवत्त्वान्महानसवदित्युदाहरणम् । २ महानसे । ३ पर्वते । ४ शेषः परिशिष्यमाणोर्थः सोस्यास्तीति शेषवत् । अत्रोदाहरणं शब्दः क्वचिदाश्रितो गुणत्वाद्रूपवदिति । ५ उद्धरितार्थस्याकाशादेः। ६ अनुमानम् । ७ साध्यसाधनं नास्तीति चेत् । ८ हेतूनाम् । ९ देवदत्ते गतिमत्त्वदेशाद्देशान्तरप्राप्त्योः साध्यसाधनयोधर्मयोः सामान्येन प्रतिपत्तिः। १० पूर्ववच्छेषवत्सामान्यतोदृष्टलक्षणानाम् । ११ ऊहलक्षणात् । १२ क्वचिदनाश्रितत्वस्य । १३ घटस्य । १४ क्वचिदाश्रितत्वस्य । १५ आकाशस्य । १६ कचिदाश्रितत्वस्य । १७ रूपादो। १८ शब्दे क्वचिदाश्रितत्वस्य । १९ गुणवत्त्वस्य । २० देशाद्देशान्तरप्राप्तेर्गतिमत्त्वाविनाभाविन्या देवदत्ते प्रतिपत्तिर्नास्तीति चेत् । २१ आदित्यगतिमत्त्वस्य । २२ पूर्ववच्छेषवदित्यनुमानद्वयम् । २३ अनुमाने। २४ योगेन भवता ।