________________
सू० ३ १५ ] पूर्ववदाद्यनुमानत्रैविध्यनिरासः
निवृत्तौ प्राणादयो नियमेन निवर्त्तन्ते तस्मात्सात्मकत्वाभावः प्राणाद्यभावेन व्याप्तो धूमाभावेनैव पावकाभावः । जीवच्छरीरे च प्राणाद्यभावविरुद्धः प्राणादिसङ्गावः प्रतीयमानस्तदभावं निचर्त्तयति । स च निवर्त्तमानः स्वव्याप्यं सात्मकत्वाभावमादाय निवर्त्तते इति सात्मकत्वसिद्धिस्तत्रः इत्यप्यसारम् ः यतोनुमा ५ नान्तरेन्येवनविनाभावप्रसिद्धेः केवलव्यतिरेक्येव सर्वमनुमानं त्यात्, अन्ययमात्रेण तसिद्धावतिप्रसङ्गस्योत्तम्बात् ।
३६७
किञ्च, साध्यनिवृत्त्या साधननिवृत्तिर्व्यतिरेकः, स च क्वचित् कदाचित्, सर्वत्र सर्वदा वा स्यात् ? न तावदाद्यः पक्षःः तथा व्यतिरेकस्य साधनाभासेपि सम्भवात् । द्वितीयपक्षोप्ययुक्तः; १० साकल्येन व्यतिरेकप्रतिपत्तेः प्रत्यक्षादिप्रमाणतः परेषामन्वयप्रतिपत्तेरिवासम्भवात् ।
एतेन पूर्ववच्छेपवत्सामान्यतोदृष्टमन्वयव्यतिरेक्यनुमानं प्रत्याख्यातम् ; पक्षद्वयोपक्षिप्तदोषानुषङ्गात् ।
यच्च तदुदाहरणम्-विवादापनं तनुकरणभुवनादिकं बुद्धिमद्धे - १५ तुकं कार्यत्वादिभ्यो घटादिवदित्युक्तम्, तदपीश्वरनिराकरणप्रकरणे विशेषतो दूषितमिति पुनर्न दृप्यते ।
अथ " पूर्ववत् कारणात्कार्यानुमानम्, शेषवत् - कार्यात्कारणानुमानम्, सामान्यतो दृष्टम् अकार्यकारणाद कार्यकारणानुमानम् सामान्यतोऽविनाभावमात्रात्" [ न्यायभा०, वार्त्ति ० १ ११५ ] इति २० व्याख्यायते; तदप्यविनाभावनियमनिश्चायकप्रमाणाभावादेवायुक्तं परेपम् । स्याद्वादिनां तु तद्युक्तं तत्सङ्गावात् इत्याचार्यः स्वयमेव कार्यकारणेत्यादिना हेतुप्रपञ्चे प्रपञ्चचिष्यति ।
१ कारणात् । २ व्यापकेन । धूमाभावः पावकाभावे सत्यसति च भवति धूमाभावस्य व्यापकत्वेन तदतन्निष्ठत्वात् । ४ देशे । ५ स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यादौ । ६ केवलान्वयिकेवलव्यतिरेकिलक्षणपक्षद्वयनिराकरणपरेण ग्रन्थेन । ७ पूर्वं कारणं तल्लिङ्गमस्यानुमानस्यास्तीति पूर्ववत् । कारणलिङ्गजनितमनुमानमित्यर्थः। ८ असौ पुमान् रूपादिशानवान् चक्षुरादिमत्त्वान्नद्वदित्युदाहरणम् । शेषवदिति शेषः कार्यं तल्लिङ्गमस्यानुमानस्यास्तीति शेषवत् । कार्यलिङ्गजनितमनुमानमित्यर्थः । सात्मकं जीवच्छरीरं प्राणादिमत्त्वादित्युदाहरणम् । ९ दृष्टान्ते । १० कार्य यो हेतुर्न भवति कारणं वा यो हेतुर्न भवति तस्माद्धेतोः कार्य यन्न भवति साध्यं कारणं वा यन्न भवति साध्यं तस्यानुमानम् । मातुलिङ्गं रूपवद्रसवत्त्वात्सम्प्रतिपन्न मातुलिङ्गवदित्युदाहरणम् । ११ सूत्रम् । १२ व्याख्यानम् । १३ ऊह । १४ जटाधराणाम् । १५ अनुमानत्रितयम् ।