SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० साध्यत्वं चास्यासतः करणम्, सतो ज्ञापनं वा ? प्रथमपले सामान्यस्यानित्यत्वाऽसर्वगतत्वप्रसङ्गः । द्वितीयपक्षेप्यस्य दृश्यत्वे धर्मिवत्प्रत्यक्षत्वमिति किं केन ज्ञाप्यते ? अन्यथा धूमसामान्यमप्यनिसामान्येन ज्ञाप्येत । अथ व्यक्तिसहायत्वाद्धूमसामान्यमेव प्रत्यक्षं ९ नान्यत् ततोऽयमदोषः, न; अस्य सामान्यविचारे सहायापेक्षाप्रतिक्षेपात्। यञ्चोक्तम्-विशेषप्रतिपत्तिस्तु पक्षधर्मतावलादेवेति; तंत्र पक्षधर्मता धूमस्य, तत्सामान्यस्य वा? तत्राद्यः पक्षोऽसङ्गतः, विशेषेण व्याप्तेरप्रतिपत्तितस्तद्गमकत्वायोगात्। १० द्वितीयपक्षेप्यग्निसामान्यस्यैव धूमसामान्यासिद्धिः स्यात् तेनैव तस्य व्याप्तेः, नाग्निविशेषस्य अनेनाव्याप्तेः । अथ साधनसामान्यात् साध्यसामान्यप्रतिपत्तेरेवेष्टविशेषप्रतिपत्तिः सामान्यस्य विशेषनिष्ठत्वात् । ननु तत्सामान्यमपि विशेषमात्रेण व्याप्तं सत्तदेव गमयेन्नान्यत् । अथ विशिष्टविशेषांधारं लिङ्गसामान्यं १५प्रतीयमानं विशिष्टविशेषाधिकरणं साध्यसामान्यं गमयतीत्युच्यते; तदप्युक्तिमात्रम्; तथा व्याप्तेरभावात् । अथ विपक्षे सद्भाव वाधकैप्रमाणवशात्तत्सिद्धिरिष्यते; तर्हि तावतैव पर्याप्तत्वात् किमन्वयेन परस्य ? एतेनान्ततिरपि चिन्तिता । न खलु प्रत्यक्षादितः सापि २० प्रसिद्ध्यति । तन्न पूर्ववच्छेषवदिति सूक्तम् । यच्चान्यदुक्तम्-'पूर्ववत्सामान्यतोदृष्टं चेति चशब्दो भिन्नप्रक्रमः 'सामान्यतः' इत्यस्यानन्तरं द्रष्टव्यः । ततोयमर्थः-पूर्वव. त्पक्षवत्सामान्यतोपि न केवलं विशेषतो दृष्टं विपक्षे । अनेन केव. लव्यतिरेकी हेतुर्दर्शितः-'सात्मकं जीवच्छरीरं प्राणादिमत्त्वात्' २५ इत्यादिः; तदप्ययुक्तम् । यतः प्राणादेरन्वयाभावे कुतोऽविनाभावावगतिः? व्यतिरेकाचेत् ; तथाहि-यस्माद् घटादेः सात्मकत्व १ निष्पादनम् । २ हेतुना। ३ साध्यसामान्यस्य । ४ हेतुना। ५ प्रत्यक्षमापि शाप्यते चेत् । ६ धूमविशेष । ७ अग्निसामान्यम् । ८ साध्यसाधनसामान्यस्य । ९ ग्रन्थे। १० साध्यसाधनयोः। ११ यत्र यत्र पुरो भवति पर्वतस्थधूमस्तत्राग्नि रिति । १२ सिद्धिः। १३ धूमसामान्यस्य । १४ यसः। १५ अग्निविशेष । १६ प्रेष्टविशेषम् । १७ पर्वतस्थधूम । १८ पर्वतस्थाग्नि। १९ बसः। २० यो यः पुरोवत्तिपर्वतस्थधूमः स पुरोवत्तिपर्वतस्थाग्निमानिति । २१ हेतोः । २२ अनुपलम्भ। २३ व्याप्ति । २४ व्याप्तेः । २५ योगस्य । २६ साकल्यव्याप्तिशोधनपरेण ग्रन्थेन । २७ निराकृता । २८ अन्वयदृष्टान्तस्य । २९ कारणात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy