________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० भासमानतयाऽसिद्धत्वात् । तथासूतस्यास्य सामान्यविचारे निराकरिष्यमाणत्वाच्च । अथाभिन्नम् ; कथञ्चित् , सर्वथा वा? सर्वथा चेत्न; सर्वथा व्यत्त्यव्यतिरिक्तस्यास्य व्यक्तिस्वरूपवद्ध्यत्यन्तरा. ननुगमतः सामान्यरूपतानुपपत्तेः । कथञ्चित्पक्षस्त्वनभ्युपंगमा५ देवायुक्तः । नापि व्यक्तिरूपो हेतुः, तस्यासाधारणत्वेन गमकत्वायोगात् । नाप्युभयं परस्परानेनु विद्धम् ; उभयदोषप्रसङ्गात् । नाप्यनुभयम् ; अन्योन्यव्यवच्छेदरूपाणामेकाभावे द्वितीयवि(ना. दनुभयस्यासत्त्वेन हेतुत्वायोगात् । ततः पदार्थान्तरानुवत्तव्यात. त्तरूपमात्मानं विभ्रदेकमेवार्थस्वरूपं प्रतिपत्तुर्भेदाभेदप्रत्ययप्रस १० तिनिवन्धनं हेतुत्वेनोपादीयमानं तथाभूतसाध्यसिद्धिनिबन्धनमभ्युपगन्तव्यम्।
किञ्च, एकान्तवाद्युपन्यस्तहेतोः किं सामान्यं साध्यम् , विशेषो वा, उभयं वा, अनुभयं वा ? न तावत्सामान्यम्; केवलस्यास्या
सम्भवादर्थक्रियाकारित्वविकलत्वाच्च । नापि विशेषः, तस्या१५ ननुयायितया हेत्वऽव्यापकस्य साधयितुमशक्तेः । नाप्युभयम्; उभयदोषानतिवृत्तेः । नाप्यनुभयम्; तस्यासतो हेत्वव्यापकत्वेन साध्यत्वायोगात्।
यच्चान्यदुक्तम्-"प्रत्यक्षपूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च।" [ न्यायसू० ११११५] इति । तत्र पूर्ववच्छेषव२० केवलान्वयि, यथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनमनेकत्वात्
पञ्चाङ्गुलवत् । पञ्चाङ्गुलव्यतिरिक्तस्य सदसद्वर्गस्य पक्षीकरणादन्यस्याभावाद्विपक्षाभावः, अत एव व्यतिरेकाभावः । पूर्ववत्सामान्यतोऽदृष्टम् केवलव्यतिरेकि, यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति । पूर्ववच्छेषवत्सामान्यतोऽष्टमन्वयव्यतिरेकि,
१ पराभ्युपगतसामान्यं धर्मि सामान्यरूपतां न भजति व्यक्तयन्तराननुगमात् व्यक्तिस्वरूपवत् । सामान्य व्यक्त्यन्तरं नानुगच्छति व्यक्तिभ्योऽभिन्नत्वात् व्यक्तिस्वरूपवत् । २ परेण । ३ दृष्टान्तेऽसत्त्वेन। ४ परस्परानुविद्धं तु परै भ्युपगम्यते । ५ निरपेक्षम् । ६ व्यत्यन्तरेषु । ७ सदृशपरिणामेन । ८ व्यक्तिभेदेषु । ९ देशकालादिभेदेन भेदप्रत्ययः। १० धूमो धूम इत्यभेदप्रत्ययः । ११ व्यक्तिरहितस्य । १२ पाकादि । १३ अन्यत्र व्यक्तिनिषेधेषु। १४ लिङ्गप्रत्यक्षं यतः। १५ समासरहितानि पदान्यत्र । १६ सर्वावयवापेक्षाऽऽदौ प्रयुज्यमानत्वात्पक्षः पूर्वः पूर्वमस्य हेतोरस्तीति पूर्ववत्पक्षधर्म इत्यर्थः। १७ शेषो दृष्टान्तः सोस्य हेतोरस्तीति शेषवत्सपक्षे सन्नित्यर्थः । १८ सपक्षे सत्साध्यम् । १९ द्रव्यगुणादि । २० प्रागभावादि । २१ पक्षीभूताद् दृष्टान्तभूतादन्यस्य व्यतिरिक्तस्य विपक्षस्य । २२ साधनसामान्यस्य साध्यसामान्येन व्याप्तिः सामान्यं ततोऽदृष्टं व्यतिरेकिदृष्टान्ते ।