________________
सू० ३।१५ ] पूर्ववदाद्यनुमानत्रैविध्यनिरासः
३६३
यथा विवादास्पदं तनुकरणभुवनादि बुद्धिमत्कारणं कार्यत्वादिभ्यो घटादिवत् । यत्पुनर्बुद्धिमत्कारणं न भवति न तत्कार्यत्वादिधर्माधारो यथात्मादिः' इति ।
तदप्येतेन प्रत्याख्यातम्ः सर्वत्रान्यथानुपपन्नत्वस्यैव हेतुलक्षणतोपपत्तेः तस्मिन्सत्येव हेतोर्गमकत्वप्रतीतेः ।
;
केवलान्वयिनो हि यद्यन्यथानुपपन्नत्वं प्रमाणनिश्चितमस्ति, किमन्वयाभिधानेन ? अथान्वयाभावे तद्भावतदविश्रयो वेति तदभिधानम्ः स्यादेतत् यद्यविनाभावस्तेन व्याप्तः स्यात्, अव्यापक निवृत्तेरव्याप्य निवृत्तावतिप्रसङ्गात् । व्याप्तश्चेत् तर्हि प्राणादौ तन्निवृत्तावविनाभाव निवृत्तेरगमकत्वं स्यात् । न खलु वैद्य १० व्यापकं तत्तदभावे भवति वृक्षत्वाभावे शिंशपात्ववत् । गमकत्वे वास्य नान्वयेनासौ व्याप्तः स्यात् । यदभावे हि यद्भवति न तत्तेन व्याप्तम् यथा रासभाभावे भवन्धूमादिर्न तेन व्याप्तः भवति चान्वयाभावेपि तदविनाभाव इति ।
'सदसद्वर्गः कस्यचिदेकज्ञानालम्वनमनेकत्वात्' इत्ययं च हेतुः १५. कुतः केवलान्वयी ? व्यतिरेकाभावाच्चद् अयमपि कुतः ? तद्विपयस्य विपक्षस्याभावाचेद: अथ कोर्य विपक्षाभावः- पक्षलपक्षावेव, निवृत्तिमात्रं वा ? प्रथमपक्षे परमतप्रसङ्गः अभावस्य भावान्तरस्वभावतास्वीकारात् । द्वितीयपक्षे तु स तथाविधः प्रतिपन्नः, न वा ? न प्रतिपन्नश्चेत्; तर्हि विपक्षाभावसन्देहाद्व्यतिरेकाभावोपि २० सन्दिग्ध इति केवलान्वयोपि तादृगेव । अथ प्रतिपन्नः स यदि साध्यनिवृत्त्या साधननिवृत्त्याधारः प्रतिपन्नः तर्हि स एव विपेक्षः, कथं विपक्षाभावो यतो व्यतिरेकाभावः ? साध्यसाधनाभावाधारतया निश्चितस्य विपक्षत्वात् । चभाववदभावस्यापि न विरुध्यते, कथमन्यथा 'सदसद्वर्गः कस्यचिदेकज्ञानालम्वनम्' २५ इत्यत्रासन् पक्षः स्यात् ? असन् पक्षो भवति न विपक्षै इति किङ्कतो
"
૨૨
१ व्यतिरेकिदृष्टान्तः । २ गगनं च । ३ अन्यथानुपपन्नत्वमेव हेतुलक्षणमिति समर्थनपरेण ग्रन्थेन । ४ अनुमाने । ५ तर्कलक्षण । ६ दृष्टान्ते हेतोः सत्त्वमन्वयः ॥ ७ अन्त्रयस्य । ८ अविनाभावस्य । ९ सत्यान् । १० घटनिवृत्तौ पटनिवृत्तिप्रसङ्गात् । ११ अविनाभावोऽन्वयेन । १२ अविनाभावस्य । १३ अन्वयः । १४ अविनाभावः । १५ प्रसज्यः । १६ जैनमत । १७ जैनेन । १८ विपक्षाभावो विपक्षो भवति साध्यनिवृत्त्या साधननिवृत्याधारः स्यात्सम्प्रतिपन्नविपक्षवत् । १९ भाव एव महान् इदलक्षण: आकाशलक्षणो वा विपक्षः स्यात् न त्वभाव इत्युक्ते आह । २० अभावस्य विपक्षत्वे विरोधश्चेत् । २१ असन् । २२ केन |