SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ३५८ प्रमेयकमलमार्त्तण्डे [ ३. परोक्षपरि० धर्मिणि सद्भाव स्त्ररूप्यम्, तद्भावे एव च तत्र तत्सम्भवो वाधा, भावाभावयोश्चैकत्रैकस्य विरोधः । fear, अध्यक्षागमयोः कुतो हेतुविर्षेयवाधकत्वम् ? स्वार्थ(थ) व्यभिचारित्वाच्चेत्; हेतावपि सति त्रैरूप्ये तत्समानमित्यसा५ वप्यनयोर्विषये वाधकः स्यात् । दृश्यते हि चन्द्रार्कादि स्थैर्यग्राह्य • ध्यक्षं देशान्तरप्राप्तिलिङ्गप्रभवानुमानेन वाध्यमानम् । अथैकशाखाप्रभवत्वाद्यनुमानस्य भ्रान्तत्वाद्वाध्यत्वम् । कुतस्तद्भान्तत्वम् - अध्यक्ष वाध्यत्वात्, त्रैरूप्यवैकल्याद्वा ? प्रथमपक्षेऽन्योन्याश्रयः - भ्रान्तत्वेऽध्यक्ष वाध्यत्वम्, ततश्च भ्रान्तत्वमिति । द्वितीय१० पक्षस्त्वयुक्तः; त्रैरूप्यसद्भावस्यात्र परेणाभ्युपगमात् । अनभ्युपमेवात एवास्यागमकत्वोपपत्तेः किमध्यक्ष वाधासाध्यम् ? " किञ्च, अवाधितविषयत्वं निश्चितम् अनिश्चितं वा हेतोर्लक्षणं स्यात् ? न तावदनिश्चितम् अतिप्रसङ्गात् । नापि निश्चितम् ; तनिश्चयासम्भवात् । स हि स्वसम्बन्धी, सर्वसम्वन्धी वा ? १५ स्वसम्बन्धी चेत् तत्कालीनः सर्वकालीनो वा ? न तावत्तत्का लीनः तस्यासम्यगनुमानेपि सम्भवात् । नापि सर्वकालीनः तस्यासिद्धत्वात्, 'कालान्तरेण्यत्रं वाधकं न भविष्यति' इत्यसर्वविदा निश्चेतुमशक्यत्वात् । ; , सर्वसम्बन्धिनोपि तत्कालस्योत्तरकालस्य वा तन्निश्चयस्या२० सिद्धत्वम्; अर्वाग्रहशा 'सर्वत्र सर्वदा सर्वेषामत्रं वाधकस्याभावः ' इति निश्चेतुमशक्तेस्तन्निश्चयनिबन्धनस्याभावात् । तन्निबन्धनं नुपलम्भः, संवादो वा स्यात् ? न तावदनुपलम्भः सर्वात्मसम्बन्धिनोऽस्याsसिद्धानैकान्तिकत्वात् । नापि संवादः, प्रागनुमानप्रवृत्तेस्तस्यासिद्धेः । अनुमानोत्तरकालं तत्सिद्व्यभ्युपगमे पर२५ स्पराश्रयः - अनुमानात्प्रवृत्तौ संवादनिश्चयः, ततञ्चावाधितविषयत्वावगमेऽनुमानप्रवृत्तिरिति । न चाविनाभावनिश्चयादेवाबाधितविषयत्वनिश्चयः; हेतौ पञ्चरूपयोगिन्यऽविनाभावपरिसमाप्ति १ पर्वते । २ यदा हेतोर्धर्मिणि सद्भावस्तदा पक्षधर्मत्वम् । यदा च साध्यसद्भावे हेतोर्धर्मिणि सद्भावस्तदान्वयः । यदा च साध्यसद्भावे एव हेतोर्धर्मिणि सद्भावस्तदा विपक्षेऽसत्त्वम् । कथं साध्यसद्भाव एव इत्येवकारेण विपक्षेऽसत्त्वं गम्यम् । ३ साध्यस्य । ४ साध्य । ५ एकशाखाप्रभवत्वलक्षणे । ६ योगेन । ७ पक्षधर्मत्वादेरप्यनिश्चितस्य हेत्वङ्गत्वप्रसङ्गात् । ८ अनुमानकालीनः । ९ एकशाखाप्रभवत्वलक्षणे । १० सम्यगनुमाने । ११ अनुमान । १२ नृणाम् । १३ अनुमानविषये । १४ भावुकस्य । १५ आत्मनः स्वस्य । "
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy