SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ सू० ३११५ ] हेतोः पाञ्चरूप्यखण्डनम् वादिनामवाधितविपयत्वाऽनिश्र्श्वये अविनाभावनिश्चयस्यैवालम्भ ३५९ वात् । तन्नैकशाखाप्रभवत्वादेवधितविपयत्वाद्धेत्वाभासत्वम् । नापि तत्पुत्रत्वादेः सत्प्रतिपक्षत्वात् । यतः प्रतिपक्षस्तुल्यवलः, अतुल्यबलो वा सन् स्यात् ? न तावदाद्यः पक्षः हैयोस्तुल्यबलत्वे 'एकस्य बाधकत्वनपरस च वाध्यत्वम्' इति ५ विशेषानुपपत्तेः । न च पक्षनेत्वाद्यभाव विशेषः तस्यानभ्युपगमात् | अभ्युपगमे वा अत पि किञ्चिदनुमानवाध्या ? द्वितीयपक्षेप्यतुल्यबलत्वं तयोः पशुत्वादिभावाभावकृतम्, अनुमानवाधाजनितं वा स्यात् ? प्रथमपक्षोनभ्युपगमादेवायुक्तः, पक्षधर्मत्वादेरुभयोरप्यभ्युपगमात् १० द्वितीयोप्यसम्भाव्यः तस्याद्यापि विवादपदापन्नत्वात् । न खलु द्वयोस्त्रैरूप्याविशेषतस्तुल्यत्वे सति 'एकस्य वाध्यत्वमपरस्य च बाधकत्वम्' इति व्यवस्थापयितुं शक्यमविशेषेणैव तत्प्रसङ्गात् । इतरेतराश्रयश्च-अतुल्यबलत्वे सत्यनुमानवाधा, तस्यां चातुल्यचलत्वमिति । यच्च प्रकरणसमस्यानित्यः शब्दोनुपलभ्यमाननित्यधर्मकत्वादित्युदाहरणम्ः तत्रानुपलभ्यमाननित्यधर्मकत्वं शब्दे तत्त्वतोऽप्रसिद्धम्, न वा ? प्रथमपक्षे पक्षवृत्तितयाऽस्याऽसिद्धेरसिद्धत्वम् । द्वितीयपक्षे तु साध्यधर्मान्विते धार्मणि तत्प्रसिद्धम्, तद्रहिते वा ? आद्यविकल्पे साध्यवत्येव धर्मिण्यस्य सद्भावसिद्धिः, कथमगम-२० कत्वम् ? न हि साध्यधर्ममन्तरेण धर्मिण्यऽभवनं विहायापरं हेतोरविनाभावित्वम् । तच्चेत्समस्ति कथं न गमकत्वम् अविनाभावनिवन्धनत्वात्तस्य । द्वितीयपक्षे तु विरुद्धत्वम्: साध्यधर्मरहिते धर्मिणि प्रवर्त्तमानस्य विपक्षवृत्तितया विरुद्धत्वोपपत्तेः । अथ सन्दिग्धसाध्यधर्मवति तत्तत्र प्रवर्त्तते तर्हि सन्दिग्ध २५ विपक्षव्यावृत्तिकत्वादस्याऽनैकान्तिकत्त्वम् । 5 ; नन्वेवं सर्वो हेतुरनैकान्तिकः स्यात्, साध्यसिद्धेः प्राक्साध्यधर्मिणैः साध्यधर्मसदसत्त्वाश्रयत्वेन सन्दिग्धत्वात्, ततोऽनुमेयव्यतिरिक्ते साध्यधर्मवति धर्म्यन्तरे साध्याभावे च प्रवर्त्तमानो १५ १ योगादीनाम् । २ उक्तन्यायेन । ३ तत्पुत्रत्वव्याख्यानवत्त्वहेत्वोः । ४ तत्पुत्रत्वादित्येतस्य । ५ यौगेन । ६ तत्पुत्रत्वादित्येतस्य । ७ तत्पुत्रत्वव्याख्यानवत्त्वहेत्वोः । ८ तत्पुत्रत्वस्य पक्षधर्माद्यभावः व्याख्यानवत्त्वस्य च पक्षधर्मादिसद्भावः । ९ तत्पुत्रत्वव्याख्यानवत्वहेत्वोः । १० सन्दिग्धसाध्यधर्मवति प्रवर्तमानस्यानैकान्तिकत्व प्रकारेण । ११ पर्वतस्य शब्दस्य वा । १२ अनित्यतयाऽनुमेयाच्छब्दात् । १३ घटे । १४ आकाशादौ । १५ सपक्षविपक्षयोरिति यावत् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy