SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ३५२ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० अग्निसामान्यविशेषस्य साध्यत्वे तेन धूमस्य सम्वन्धः कथं सकल देशकालव्यात्याध्यक्षतः सिचेत् ? तथा तत्सम्बन्धासिद्धौ च यत्र यत्र यदा यदा धूमोपलस्मस्तत्र तत्र तदा तदाग्निसामान विशेषविषयमनुमानं नोदयमासादयेत् । न ह्येन्यथा सम्बन्ध ५ ग्रहणमन्यथानुमानोत्थानं नाम, अतिप्रसङ्गात् । ततः सर्वाक्षेपण व्याप्तिग्राही तर्कः प्रमाणयितव्यः । ननु 'यावान्कश्चिद्धमः स सर्वोप्यग्निजन्माऽनग्निजन्मा वा न भवति' इत्यूहापोहविकल्पज्ञानस्य सम्वन्धमाहिप्रत्यक्षफलत्वान्न प्रामाण्यम् ; इत्यप्यसमीचीनम् ; प्रत्यक्षस्य सँम्वन्धग्राहित्वप्रतिषे. १० धात् । तत्फलत्वेन चास्याऽप्रामाण्ये विशेषणज्ञानफलत्वादिशेय ज्ञानस्याप्यप्रामाण्यानुपङ्गः । हानोपादानोपेक्षाबुद्धिफलत्वात्तस्य प्रामाण्ये च ऊहापोहज्ञानस्यापि प्रमाणत्वमस्तु सर्वथा विशेषीभावात् । तन्नास्य गृहीतग्राहित्वादप्रामाण्यम् । नापि विसंवादित्वात्; स्वविषयेस्य संवादप्रसिद्धेः । साध्य१५साधनयोरविनाभावो हि तर्कस्य विषयः, तत्र चाविसंवादकत्वं सुप्रसिद्धमेव । कथमन्यथानुमानस्याविसंवादकत्वम् ? न खलु तर्कस्यानुमाननिवन्धनसम्बन्धे संवादाभावेऽनुमानस्यासौ घटते। ननु चास्य निश्चितः संवादो नास्ति विप्रकृष्टार्थ विषयत्वात्। तदसत्; तर्कस्य संवादसन्देहे हि कथं निस्सन्देहानुमानोत्था२० नम्? तदभावे च कथं सामस्त्येन प्रत्यक्षस्याप्रामाण्यव्यवच्छेदेन प्रामाण्यप्रसिद्धिः १ ततो निस्सन्देहमनुमान मिच्छता साध्यसाधनसम्वन्धग्राहि प्रमाणमसन्दिग्धमेवाभ्युपगन्तव्यम् । समारोपव्यवच्छेदकत्वाञ्चास्य प्रामाण्यमनुमानवत् । प्रमाणविषयपरिशोधकत्वान्नोहः प्रमाणम् ; इत्यपि वार्तम् ; २५प्रमाणविषयस्याप्रमाणेन परिशोधनविरोधात् मिथ्याज्ञानवत्प्र. मेयार्थवञ्च । प्रयोगः-प्रमाणं तर्कः प्रमाणविषयपरिशोधकत्वा. दनुमानादिवत् । यस्तु न प्रमाणं स न प्रमाणविषयपरिशोधकः १ अग्निसामान्यविशेषेण । २ देशान्तरकालान्तरसम्बन्धित्वेन। ३ अग्यविनाभूतधूमाजलानुमानोत्पत्तिप्रसङ्घात् । ४ स्वीकारेण। ५ अन्वय। ६ व्यतिरेक । ७ साकल्येन। ८ दण्डशान। ९ दण्डि। १० अनुमानलक्षणफलसद्भावात् । ११ तर्कस्य । १२ साकल्येन । १३ तर्कस्य अविसंवादकत्वं सुप्रसिद्धं यदि न स्यात् । १४ विषये। १५ प्रत्यक्षं प्रमाणमविसंवादकत्वादिति । १६ तर्कस्य संवादसन्देहे निस्सन्देहानुमानोत्थानं न स्याद्यतः। १७ तर्कः। ८ अनुमान। ९ तर्कः । २० दूरस्थितस्यार्थस्य प्रत्यक्षविषयस्य यथानुमानं परिशोधकम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy