________________
सु० ३११३] तर्कस्वरूपविचारः
३५१ एतेन साध्यसाधनयोः साकल्येनानुमानाद्याप्तिप्रतिपत्तेतर्क स्याप्रामाण्यमिति प्रत्युक्तम् । तन्न प्रत्यक्षानुमानयोः साकल्पन्न व्याप्तिप्रतिपत्तौ सामर्थ्यम् ।
अथास्मदादिप्रत्यक्षस्य व्यातिप्रतिपत्तासामर्थ्यपि योगिप्रत्यक्षस्य तत् स्यात् : इत्यप्यलत् : तस्याप्यविचारकतया तावतो५ व्यापारान् कमलमथेत्वाविशेषात् । कुतश्चास्योत्पत्तिः-विकल्पमात्राभ्यासात् , अनुमानाभ्यासाद्वा? प्रथमपक्षे कालशोकादिज्ञानवत्तस्याप्रामाण्यप्रेसङ्गः । द्वितीयपक्षेप्यन्योन्याश्रयः-व्यातिविपये हि योगिप्रत्यक्षे सत्यनुमानम् , तस्मिंश्च सति तस्यालाधोरिदप्रत्यक्षमिति । अस्तु वा योगिप्रत्यक्षम् ; तथापि-तत्प्रतिपन्नाव-१० नुमानवैयर्थ्यम् । साध्यसाधनविशेषेषु स्पष्टं प्रतिभातेप्वपि अनुमाने सर्वत्रानुमानानुपङ्गात् स्वरूपस्याप्यध्यक्षतोऽप्रसिद्धिः।
परार्थ तस्यानुमान मिति चेत्, तर्हि योगी परार्थानुमानेन गृहीतव्याप्तिकम् , अगृहीतव्याप्तिकं वा परं प्रतिपादयेत् ? गृहीतव्याप्तिकं चेत् ; कुतस्तेन गृहीता व्याप्तिः? न तावत्वसंवेदनेन्द्रिय-२५५ मनोविज्ञानैः; तेषां तदविषयत्वात् । योगिप्रत्यक्षेण व्याप्तिप्रतिपत्तावनुमानवैयर्थ्यमित्युक्तम् । अगृहीतव्याप्तिकस्य च प्रतिवादनानुपपत्तिरतिप्रसङ्गात् ।
मानसप्रत्यक्षाध्याप्तिप्रतिपत्तिरित्यन्ये; तेप्यतत्त्वज्ञाः; प्रत्यक्षस्येन्द्रियार्थसनिकर्षप्रभवत्वाभ्युपगमात् । अणुखभावमनसो युग-२० पदशेषार्थस्तत्सम्बन्धस्य च प्रागेव प्रतिविहितत्वात् कथं तत्प्रत्ययेनापि व्याप्तिप्रतिपत्तिः?
ननु साध्यसाधनधर्मयोः क्वचिद्यक्तिविशेषे प्रत्यक्षता एव सम्वन्धप्रतिपत्तिः; इत्यप्ययुक्तम् : साकल्येन तत्प्रतिपत्त्यभावानुषङ्गात् । साध्यं च किमग्निसामान्यम् , अग्निविशेषः, अग्निसामान्य-२५ विशेषो वा? न तावदग्निसामान्यम्; तदनुमाने सिद्धसाध्यतापत्तेः, विशेषतोऽसिद्धेश्च ? नाप्यग्निविशेषः, तस्यानन्वयात् ।
१ अनुमानेन व्याप्तिग्रहणेऽनवस्थेतरेतराश्रयत्वनिरूपणपरेण ग्रन्थेन । २ तद्वाहित्वादस्याप्रामाण्यमित्यत्रासौ यो विकल्पः। ३ निर्विकल्पकत्वेन। ४ विकल्पस्याप्रमाणत्वेनाऽङ्गीकरणात् । ५ उत्पन्ने । ६ स्वस्वरूपादौ । ७ भूभवनवाड़तोत्थितमपि नरं प्रतिपादयेत् । ८ यौगाः । ९ तैरेव । १० अणुपरिमाणं मनः। ११ ते एव धौं। १२ अग्नित्वसामान्यम् । १३ यत्र यत्र धूमस्तत्र तत्र खदिराग्निरिति । १४ अग्नित्वस्य । १५ साधनवैयर्थ्य मिति भावः। १६ तत्राविवादाद्वयाप्तिग्रहणकाले एवास्य प्रसिद्धः। कथमन्यथा साध्यसाधनयोव्याप्तिनिर्णीतिः स्यात् ।। १७ देशादिना। १८ अग्नित्वस्य ।