________________
३५०
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तामेवातिवर्त्तत, इत्याकस्मिकोऽग्निनिवृत्तौ न केचिदपि निवतेत, नाप्यवश्यतया तत्सद्भावे एव स्यादिति, अहेतोः खरविपाणवत्तस्यासत्त्वात् क्वचिदप्युपलम्भो न स्यात्, सर्वत्र सर्वदा सर्वाकारेण वोपलम्भः स्यात् । स्वभावश्च तद्वतीर्थस्याभावेपि ५यदि स्यात्तदार्थस्य निःस्वभावत्वं स्वभावस्य वाऽसत्त्वं स्यात. तत्स्वभावतया चास्य कदाचिदप्युपलम्भो न स्यात् । उक्तञ्च
"कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः। सम्भवंस्तदभावेपि हेतुमत्तां विलङ्घयेत् ॥"
[प्रमाणवा० २३५]] "खभाषेप्यविनाभावो भावमात्रानुवन्धिनि । तंदभावे स्वयं भावस्याभावः स्यादभेदतः॥"
[प्रमाणवा० १४० ] इति । व्याप्तिप्रतिपत्तावपि तन्निश्चयकालोपलब्धेनैव व्यापकेन व्याप्यस्य व्याप्तिः स्यात् तस्यैव तथा निश्चयात्, न तादृशस्य । १५ तादृशस्यापि साध्यव्याप्तत्वग्रहणे ताहिणो विकल्पस्याहीत.
ग्राहित्वं कथं न स्यात् ? यत्तु प्रत्यक्षेण क्वचित्प्रदेशे साध्यव्याप्तत्वेन प्रतिनं ततस्तस्यानुमाने विशेषतो दृष्टानुमानं स्यात्, अन्य देशादिस्थसाध्येनास्याव्याप्तेः ।
पारिशेष्यात्तादृशेन व्यापकेनान्यत्र तादृशस्य व्याप्तिसिद्धिश्चेत्, २० ननु किमिदं पारिशेष्यम्-प्रत्यक्षम्, अनुमानं वा? न तावत्प्रत्य
क्षम्, देशान्तरस्थस्यानुमेयस्य प्रत्यक्षेणाप्रतिपत्तः, अन्यथानुमानानर्थक्यानुषङ्गः। नाप्यनुमानम् । तत्राप्यनुमानान्तरेण व्याप्तिप्रतिपत्तावनवस्थाप्रसङ्गात् , तेनैव तत्प्रतिपत्तावन्योन्याश्रयः।
१ अतिक्रमेत् । २ अकारणकः। ३ भूधरप्रदेशे। ४ सत्त्वलक्षणहेतुप्प्यः । ५ खलक्षणो हेतुाप्यः। ६ अनित्यत्वलक्षणस्य साध्यस्य व्यापकस्य । ७ अनुयायिनि । ८ इति स्थितिः। ९ स्वभावस्य भावस्य वा। १० स्वभावस्य अर्थस्य वा । ११ साध्यसाधनयोः । १२ स्वातत्रयेणानवस्थानाभावात्स्वभावस्य । १३ अविशेषादित्यर्थः । १४ व्याप्तिनिश्चयकालोपलब्धस्य व्याप्यस्य साधनस्य । १५ साध्येन व्याप्तत्वप्रकारेण । १६ पूर्वदृष्टधूमसदृशस्य धूमस्य न तथा निश्चयः । १७ पूर्वदृष्टसदृशस्यापि 'धूमस्य । १८ सादृश्यमगृहीतम् । १९ महानसे । २० साधनम् । २१ साध्यस्य । २२ विशेषतः खदिरादिरूपतया दृष्टस्य महानसादौ यादृशाग्निः प्रतिपन्नस्तस्य भूधरादा अनुमानस्य । २३ महानसस्थाग्निसदृशेन । २४ भूधरनितम्बादौ २५ अयं धूमोमिना च्याप्तो धूमत्वान्महानसधूमवदिति ।