________________
सू० ३।१२-२३] तर्कस्वरूपविचारः
३४९ इदमस्मिन् सत्येव भवति असति तु
न भवत्येवेति ॥ १२ ॥ इदं साधनत्वेनाभिप्रेतं वस्तु, अलिन्साध्य वेनाभिप्रेते वस्तुनि सत्येव सम्भवतीति तथोपपत्तिः । अन्यथा साध्यमन्तरेण न भवत्येवेपन्यथानुपपत्तिः । वाशब्द उभयप्रकारचकः। ५
तोवेवोभवप्रकारे सुप्रतिव्यक्तिनिष्ठतया उसावबोधार्थ प्रदर्शयतियथाग्नावेव धूमस्तदभावे न भवत्येवेति च ॥१३॥
ननु चास्याऽप्रमाणत्वात्किं कारणखरूपनिरूपणप्रयासेन; इत्यव्यसास्प्रतम्: यतोस्याग्रामाण्य गृहीतग्राहित्वात् , विसंवादि-१० त्वाद्वा स्यात्, प्रमाणविषयपरिशोधकत्वाद्वा? प्रथमपक्ष साध्यसाधनयोः साकल्येन व्याप्तिः प्रत्यक्षात् प्रतीयते, अनुमानाद्वा? न तावत्प्रत्यक्षात; तस्य सन्निहितमात्रगोचरतया देशादिविप्रकृष्टाशेपार्थालम्बनत्वानुपपत्तेः, तत्रात्य वंशयासम्भवाच ! न खलु सत्त्वानियत्वादयोऽनिधूमादको वा सर्व भावाः सविधान-१५ वत् प्रत्यक्षे विशदतया प्रतिभान्ति, प्राणिमात्रस्य सर्वज्ञतापत्तेरनुमानानर्थक्यप्रसङ्गाच्च । अविचारकतया चाध्यक्ष 'यावान् कश्चिद्धमः स सर्वापि देशान्तरे कालान्तरे वाग्निजन्माऽन्यजन्मा वा न भवति' इत्येतावतो व्यापारान् कर्तुमसमर्थम् । पुरोव्यव. स्थितार्थेषु प्रत्यक्षतो व्याप्ति प्रतिपद्यमानः सर्वापसंहारेण प्रति-२० पद्यते; इत्यप्यन्तुन्दरम् ; अविषये सोपसंहारयोगात्।।
प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि तद्विषयमात्राध्यवसायत्वात् सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावः, तथा चानिश्चितप्रतिवन्धकत्वाद्देशान्तरादौ सौधनं साध्यं न गमयेत्।
ननु कार्य धूमो हुँतभुजः कार्यधर्मानुवृत्तितो विशिष्टप्रत्यक्षा-२५ नुपलम्माभ्यां निश्चितः, स देशान्तरादौ तदभावेपि भवंस्तत्कार्य
१ उल्लेखोयम् । २ तथोपपत्त्यन्यथानुपपत्तिरूपौ। ३ अनुमान। ४ अनिर्णयरूपत्वात्तकस्याप्रामाण्यमित्यभिप्राये सत्याह । ५ क्षणिकत्व । ६ अन्यथेति शेषः । ७ निर्विकल्पकस्य परामर्शशून्यत्वात्। ८ न विद्यते विचारः यावान्कश्चिद्धमः स सर्वोप्योरेव कार्य नार्थान्तरस्येति । ९ जनः । १० प्रत्यक्षस्य । ११ प्रत्यक्षतः सर्वोपसंहारे व्याप्तिग्रहणाभावे च। १२ कर्तृ । १३ अग्नेः । १४ कार्यस्य धर्मः कारणे सति भवनलक्षणस्तदभावे अभवनलक्षणः ।
प्र० क० मा० ३०