________________
३४८
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० नियतप्रमाणव्यवस्थामभ्युपगच्छंता प्रतिपादितप्रकारा प्रतीतिः प्रत्यभिवेत्यभ्युपगन्तव्यम् ।
अथेदानीलूहस्योपलम्भेत्यादिना कारणस्वरूपे निरूपयतिउपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥११॥ ५ उपलम्भानुपलम्भौ साध्यसाधनयोर्यथाक्षयोपशमं सकृत पन:पुनर्वा दृढतरं निश्चयानिश्चयो न भूयोदर्शनादर्शने । तेनातीन्द्रियसाध्यसाधनयोरागमानुमान निश्चयानिश्चयहेतुकसम्वन्धवोधः स्यापि सङ्ग्रहान्नाव्याप्तिः । यथा 'अस्त्यस्य प्राणिनो धर्मविशेषो विशिष्टसुखादिसद्भावान्यथानुपपत्तेः' इत्यादौ, 'आदित्यस्य गम१० नशक्तिसम्बन्धोऽस्ति गतिमत्त्वान्यथानुपपत्तेः' इत्यादौ च । न
खलु धर्मविशेषः प्रवचनादन्यतःप्रतिपत्तुं शक्यः, नाप्यतोनुमानादन्यतः कुतश्चित्प्रमाणादादित्यस्य गमनशक्तिसम्बन्धः साध्यत्वाभिमतः, साधनं वा गतिमत्त्वं देशादेशान्तरप्राप्तिमत्त्वानुमा
नादन्यत इति । तौ निमित्तं यस्य व्याप्तिज्ञानस्य तत्तथोक्तम् । १५ व्याप्तिः साध्यसाधनयोरविनाभावः, तस्य ज्ञानमूहः।
न च बालावस्थायां निश्चयानिश्चयाभ्यां प्रतिपन्नसाध्यसाधनस्वरूपस्य पुनर्वृद्धावस्थायां तद्विस्मृतौ तत्स्वरूपोपलम्भेप्यविनाभावप्रतिपत्तेरभावात्तयोस्तदहेतुत्वम् ; स्मरणादेरपि तद्धेतुत्वात् ।
भूयो निश्चयानिश्चयौ हि मर्यमाणप्रत्यभिज्ञायमानौ तत्कारण२० मिति स्मरणादेरपि तनिमित्तत्वप्रसिद्धिः । मूलकारणत्वेन
तूपलम्भादेरत्रोपदेशः, स्मरणादेस्तु प्रतत्वादेव तत्कारणत्वप्रसिद्धरनुपदेश इत्यभिप्रायो गुरूणाम् ।
तञ्च व्याप्तिज्ञानं तथोपपत्त्यन्यथानुपपत्तिभ्यां प्रवर्त्तत इत्युपदर्शयति-इदमस्मिन्नित्यादि ।
१ प्रसिद्धार्थेन पूर्वप्रतिपन्नेन प्रासादादिना शाखादिमान्वृक्ष इत्यादिवाक्येन । २ तत्सदृशं तद्विलक्षणमित्यादिरूपा। ३ एकवारम् । ४ अग्नेरनुपलम्भो भावान्तरोपलम्भोऽनिश्चयः। ५ प्रत्यक्षेण साध्यसाधनयोः। ६ उपलम्भानुपलम्भौ निश्चयानिश्चयौ येन कारणेन । ७ तो हेतू यस्य सम्बन्धबोधस्य । ८ प्रत्यक्षपूर्वकनिश्चयानिश्चययोः सङ्ग्रहः अपिशब्दात् । ९ निश्चयानिश्चयहेतुकसम्बन्धबोधस्य सङ्ग्रहः के इत्युक्ते आह। १० अस्य प्राणिनोऽधर्मविशेषोस्ति दुःखादिसद्भावादित्यादौ च। ११ चन्द्रो गमनशक्तियुक्तो गतिमत्त्वादित्यादौ च । १२ केवलमुपलम्भानुपलम्भयोः । १३ साध्यसाधनयोः। १४ आदिना प्रत्यभिशानम् । १५ अनुपलम्भस्य च। १६ सूत्रे । १७ प्रस्तुतत्वात् ।