________________
सू० ३।१०।११] प्रत्यभिज्ञानप्रामाण्यविचारः ३४७ पत्तिरुपमानमिति नैयायिकमतमपि प्रत्युक्तम् । यथैव ह्येकदा घटमुपलब्धवतः पुनस्तस्यैव दर्शने 'म एवायं घटः' इति प्रतिपत्तिः प्रत्यभिज्ञा, तथा 'गोसदृशो गवयः' इति सङ्केतकाले गोसदृशगवयाभिधानयोर्वाच्यवाचवमन्वन्ध प्रतिपद्य पुनर्गवयदर्शनात्तत्प्रतिपत्तिः प्रत्यभिज्ञा किन्नेयते! न खलु पूर्वनप्रतिपन्नेऽपूर्व-५ दर्शनावृतियुक्तर, यतस्तथा प्रतिपत्तिः स्यात् ! - गोविलक्षणमहिप्यादिदर्शनाच 'अयं गवयो न भवति' इति तत्संज्ञासंक्षिसम्वन्धप्रतिपेधप्रतिपत्तिश्च यापमानम्-"प्रसिद्धसाधासाध्यसाधनमुपमानम्" न्यायसू० ११३१६ इति व्याहन्येत । अथ प्रसिद्धार्थवैधादपीप्यते; तर्हि 'प्रसिद्धार्थवैधयाच १० साध्यसाधनमुपमानम्' इत्युपख्यानं सूत्रे कर्त्तव्यम् ।
किञ्च, प्रसिद्धार्थकत्वात्साध्यसाधनमुपैमानमित्यप्यभ्युपगम्यताम् । तथा च प्रत्यभिज्ञानस्य प्रत्यक्षेन्तर्भावोऽयुक्तः।
तथा स्वसमीपवर्तिप्रासादादिदर्शनोपजनितसंस्कारस्य तनतियोगिभूधराद्युपलम्भात् 'इममादरम्' इति प्रतिपत्तिः, १५ आमलकदर्शनाहितसंस्कारस्य विल्वादिदर्शनात् 'अतस्तसूक्ष्मम्' इति, हैवदर्शनाविभूतसंस्कारस्य तद्विपरीतार्थोयलम्मात् 'अतोयं प्रांशुः' इति च प्रतिपत्तिः किं नाम मौनं स्यात् ? __ तथा वृक्षाद्यनभिज्ञो यदा कश्चित्कञ्चित्पृच्छति कीदृशो वृक्षादिरिति ? स तं प्रत्याह-शाखादिमान्वृक्ष एकशृङ्गो गण्ड-२० कोऽष्टपादः शरभः चारुसटान्वितः सिंहः' इत्यादि । तद्वाक्याहितसंस्कारः प्रष्टा यदा शाखादिमतोर्थान् प्रतिपद्य 'अयं स वृक्षशव्वाच्यः' इत्यादिरूपतया तत्संज्ञासंशिसम्बन्ध प्रतिपद्यते तदा किं नाम तत्प्रमाणं स्यात् ? उपमानम् ; इत्यसम्भाव्यम् ; सर्वत्रोतप्रकारप्रतिपत्तौ प्रसिद्धार्थसाधासम्भवात् । ततः प्रति-२५
१ शानवतः। २ आटविकाद् ज्ञात्वा। ३ वाच्यवाचकसम्बन्धे। ४ गवय । ५ गोः। ६ ज्ञातासम्बन्धसाधात् । ७ गवयस्य । ८ साध्यस्य अयं गवयशब्दवाच्य इति संज्ञासंशिसम्बन्धस्य । ९ गवा। १० महिषस। ११ साध्यसाधनमुपमानम् । १२ गोगवयलक्षणेन । १३ महिषस्य । १४ साध्यस्य अयं गव्यशब्दवाच्य इति संज्ञासंशिसम्वन्धस्य । १५ गणना। १६ तन्नास्त्येव भवदीये सूत्रे। १७ पूर्वपर्यायेण। १८ उत्तरपर्यायस्य । १९ स एवायमित्यादि । २० दूषणान्तरसमुच्चये। २१ कुब्ज। २२ प्रमाणम् । २३ पृच्छयमानपुरुषस्य । २४ ते च ते संज्ञासंशिनश्च, वृक्ष इति संशा, शाखादिमान् पदार्थः संशी। २५ अयं वृक्षशब्दवाच्य इत्यादिकम् । २६ इदमसाइरमित्यादौ च।