________________
सू० ३११३] .. तर्कस्वरूपविचारः यथा मिथ्याज्ञानं प्रमेयो वार्थः, प्रमाणविषयपरिशोधकश्चायम् , तस्मात्प्रमाणम्।
तथा, प्रमाणं तर्कः प्रमाणानामनुप्राहकत्वात् , यत्प्रमाणानामनुग्राहकं तत्प्रमाणम् यथा प्रवचनानुग्राहकं प्रत्यक्षमनुमानं वा, प्रमाणानामनुप्राहकश्चायमिति : न चायमसिद्धो हेतुः:५ प्रमाणानुग्रहो हि प्रथमप्रमाणप्रतिपन्नार्थस्य प्रमाणान्तरेण तथैवावसायः, प्रतिपत्तिदायविधानात् । स चामलि प्रत्यक्षादिप्रमाणेनावगतस्य देर्शतः साध्यसाधनलम्बन्धस्य दृढतरमनेनावगमात् । ततः साध्यसाधनयोरविनाभावावबोधनिबन्धनमूहज्ञान परीक्षादक्षः प्रमाणमभ्युपगन्तव्यम् ।
न चोहः सम्बन्धज्ञानजन्मा यतोऽपरापरोहानुसरणादनवस्था स्यात् ; प्रत्यक्षानुपलम्भजन्मत्वात्तस्य । वयोग्यताविशेपवशाच प्रतिनियतार्थव्यवस्थापकत्वं प्रत्यक्षवत् । प्रत्यक्षे हि प्रतिनियतार्थपरिच्छेदो योग्यतात एव न पुनस्तदुत्पत्त्यादेः, ततस्तत्परिच्छेदकत्वस्य प्राक्प्रतिषिद्धत्वात् । योग्यताविशेषः पुनः प्रत्यक्षस्येवास्य २५ स्वाविषयज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषः प्रतिपत्तव्यः।
ननु यथा तर्कस्य स्वविषये लम्बन्धग्रहणनिरपेक्षा प्रवृत्तिस्तथानुमानस्याप्यस्तु सर्वत्र ज्ञाने स्वावरणक्षयोपशमस्य स्वार्थप्रकाशनहेतोरविशेषात्, तथा चानर्थक सम्वन्धग्रहणार्थ तर्कपरिकल्पनम् । तदप्यसमीचीनम् । यतोऽनुमानस्याभ्युपगम्यत एव २० खयोग्यताग्रहणनिरपेक्षमनुमेयार्थप्रकाशनम् , उत्पत्तिस्तु लिङ्गलिङ्गिसम्वन्धग्रहणनिरपेक्षा नास्ति, अगृहीततत्सम्बन्धस्य प्रतिपत्तुः क्वचित्कदाचित्तदुत्पत्त्यप्रतीतेः । न च प्रत्यक्षस्याप्युत्पत्तिः करणाधीलस्वन्धग्रहणापेक्षा प्रतिपन्ना; स्वयमगृहीततत्सम्बन्धस्यापि प्रतिपत्तुस्तदुत्पत्तिप्रतीतेः । तद्वदूहस्यापि स्वार्थसम्वन्ध-२५ ग्रहणानपेक्षस्योत्पत्तिप्रतिपत्तेर्नोत्पत्तौ सम्वन्धग्रहणापेक्षा युक्तिमतीत्यनवद्यम् । · अथेदानीमनुमानलक्षणं व्याख्यातुकामः साधनादित्याद्याह
१ प्रत्यक्ष। २ दूरस्थजललक्षणस्य । ३ द्वितीयप्रत्यक्षेण । ४ एकदेशतः । ५ निश्चयात् । ६ यथानुमानं साध्यसाधनसम्बन्धमाहितर्कपूर्वकमूहोपि तथा स्यात्, तथा चानवस्था इत्युक्ते आह । ७ धूमधूमध्वजविषय एक एवोहः सकलानुमानव्यव. स्थापकः कुतो न स्यादित्युक्ते आह। ८ तस्य अर्थस्य । ९ स्वस्थानुमानस्य कारणभूता योग्यता । १० अपिशब्देनानुमानस्य सङ्ग्रहः। ११ इन्द्रिय । १२ घटादि । १३ खमात्मीयं तत्किमुपलम्भानुपलम्भौ अर्घ इति सम्बन्धः, अथवा उपलम्मानुप. लन्मयोश्च सम्बन्धः । १४ व्याप्तिानस्य कारणस्वरूपनिरूपणम् । १५ स्वरूपम् ।